SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ 170 श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः / पल्यङ्कस्य पर्यङ्कस्य शय्यायास्तले उपरि तया प्रियया समम् निविष्टः उपविष्टः स गुणवर्मा तया प्रियया कनकवत्या न्यगादि कथितः, किमित्याह प्रिय ! मम एकां काञ्चन प्रहेलिकां बुद्धयस्व ननु प्रहेलिका हि स्वकृतसङ्केतार्था गूढार्था भवति तत्कथं मया बोद्धव्यम् इति चेत्तत्राह-यद्यतः त्वं बुद्ध्या कृत्वा गुरुः महानेव, निरुपमबुद्धिमांस्त्तमिति तव कृते न दुरूहा प्रहेलिका, मन्दमतयो हि तत्र मुह्यन्तीति भावः // 137|| का सा प्रहेलिकेति चेत्तत्राह महोत्पलानीति महोत्पलानि प्रभवन्ति केषु, दिवौकसां केषु जनैघियन्ते / केष्वेव चैतन्यमिदं विभाति, रसोत्तमाङ्गात्मसु कान्त ! विद्धि // 138 // कान्त ! प्रिय ! महोत्पलानि कमलानि केषु केन कृत्वा उत्तमाङ्गः सुन्दर आत्मा येषां तेषु प्रभवन्ति उत्पद्यन्ते तथा दिवौकसां देवानां केषु कुत्रावयवेषु जनैः घ्रियन्ते कमलानि आरोप्यन्ते तथा इदं चैतन्यं ज्ञानं केष्वेव विभाति शोभते तिष्ठति वा ? इति विद्धि जानीहि // 138 // अथ गुणवर्मकृतोत्तरमाह गोपालेति गोपालपुत्रा अपि सारसाक्षि, निवेदितार्थी कलयन्ति चैताम् / तर्हि त्वमेकां विषमामपूर्वां, पूर्णेन्दुबिम्बानन? शंस मेऽग्रे॥१३९।। सारसाक्षि ! कमलाक्षि ! 'सारसं सरसीरुहं' इत्यमरः एतां त्वदुक्तप्रहेलिकाम् निवेदितोऽर्थः ज्ञातव्योऽर्थो यस्यां तादृशी निवेदितार्थत्वादेव च गोपालपुत्राः जडाः गोपालशिशवोऽपि कलयन्ति ज्ञातुं प्रभवन्ति यस्य हि अर्थों निवेदित एव, सोऽल्पमतिनाऽपि ज्ञातुं शक्य इति मादृशे बुद्धिमति सोऽकिञ्चिकर इति भावः सा प्रहेलिका निवेदितार्था चेत्थम्-रसोत्तमाङ्गात्मसु इति पदेन प्रश्नत्रयमपि समाधीयते, तथा हि कमलानि रसेषु जलेषु यद्वा रसैः जलैः कृत्वा उत्तमाङ्गं शोभनं आत्मस्वरूपं येषां तेषु निर्मलजलाशयेषु प्रभवन्ति, तथा जनैः दिवौकसामुत्तमाङ्गेषु मस्तकेषु कमलानि थ्रियन्ते तथा चैतन्यमात्मसु विभाति, ज्ञानसमवायित्वादात्मन इति बोध्यम् तर्हि मदुक्तप्रहेलिकाया अल्पसारत्वे पूर्णेन्दुबिम्बानन पूर्णचन्द्रमुख ! प्रिय!मे ममाग्रे त्वमेवापूर्वामन्यैरज्ञातामुत्तमांवा विषमां दुर्बोधोमेकां प्रहेलिकां शंस कथयेति कनकवती जगौ // 139 // अथगुणधर्मोक्तप्रहेलिकामाह सर्वास्विति सर्वासु रामासु मनोहरासु, स्त्रीरत्नरूपं परिवर्ण्यते किम् ? इदं प्रिये! ते पुरतो मयोक्तं, स्फुटं त्वया बुध्यत एव किं न ? // 140 // सर्वासु मनोहरासु रामासु नारीषु किं स्त्रीरत्नरूपं परिवर्ण्यते ? यदि सर्वाः स्त्रियो मनोहरा एव तर्हि स्त्रीरत्नमेव किमिति परिवर्ण्यते / यद्वा सर्वासु रामासु यत्परिवर्ण्यते
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy