________________ आ० श्रीवियदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 169 अथ क्षेत्रपालतिरोधानमाह इतीति इति प्रदायाऽस्य वरं वरेण्यं, क्षेत्राऽधिनाथः स तिरोबभूव / प्रमोदपूर्णेन जटाधरेण, राजाङ्गजोऽप्येवमभाणि पश्चात् // 133 // अस्य गुणवर्मकुमारस्य इत्युक्तप्रकारं वरेण्यं प्रार्थितं वरमिष्टं प्रदाय स क्षेत्राधिनाथः मेघनादः तिरोबभूवान्तर्हितो बभूव पश्चाच्च / प्रमोदपूर्णेनातिप्रसन्नेन जटाधरेण भैरवाचार्येण राजाङ्गजः नृपपुत्रः गुणवर्माऽपि एवं वक्ष्यमाणप्रकारेण अभाणि कथितः // 133 // तत्कथनमेवाह सत्त्वेनेति / सत्वेन ते राजतनूज ! मन्त्रः, सिद्धस्ततोऽजायत वाञ्छितं मे / अमानुषं शौयमतीन्द्रियार्था-वभासि विज्ञानमियं परा रुक् // 134 // राजतनूज ! नुपपुत्र ! गुणवर्मन् ! ते तव सत्त्वेन बलेन कृत्वा मन्त्रः सिद्धः आराधितः ततश्च हेतोः मे मम वाञ्छितनिष्टमजायताभवत् / किन्तु ते इष्टमिति चेत्तत्राह--अमानुषमलौकिकं शौर्य - पराक्रमः, अतीन्द्रियानिन्द्रियागोचरानर्थानवभासयतीति तादृशं विज्ञानं विशिष्टं ज्ञानम् , इयमनुभूयमाना परोत्कृष्टा रुक् कान्तिश्चेतीष्टमजायत // 134 // अथ तेषां स्वस्थानगमनमाह इतीति इतीदृशं प्रीतिपरं निरुप्य, स तापसः शिष्यसमन्वितोऽगात् / स्वस्थानमन्योऽपि कृतप्रणामः, स्वनाम वित्रासितवैरिवर्गः // 135 // इत्युक्तप्रकारेण प्रीतिपरं प्रसन्नताज्ञापकमीदृशमुक्तप्रकारं निरूप्योक्त्वा स तापसः भैरवाचार्यः शिष्यसमन्वितः सन्नगात् / स्वस्य नाम्ना एव वित्रासितः प्रकम्पितो वैरिवर्गो येन स तादृशोऽन्यो गुणवर्माऽपि कृतप्रणामः भैरवं प्रणम्य स्वस्थानमगात् // 135 // अथ तस्य प्रातः कनकवती भवनगमनमाह-निद्रेति निद्रासुखं प्राप्य मनाग विबुद्धः, प्राभातिकं कृत्यमसौ वितत्य / ... ईशानभूमीपतिपुत्रिकायाः, सौध जगाम प्रभयाऽभिरामः // 136 // असौ गुणवर्मा मनाक् किञ्चित्कालं निद्रासुखं प्राप्य शयित्वेत्यर्थः, विबुद्धः गतनिद्रः प्राभातिकं प्रातःकालिकं कृत्यं स्नानादि वितत्य समाप्य प्रभया कान्त्या कृत्वा अभिरामः मनोहरः गुणवर्मा ईशानस्य तदाख्यस्य भूमीपतेः पुत्रिकायाः कनकवत्याः सौधं जगाम // 136 // अथ तयोर्वार्तालापमाह-पल्येति-- पल्यङ्कपर्यङ्कतले निविष्टः, समं तया स प्रियया न्यगादि / प्रहेलिकां मे प्रिय काञ्चनैकां, बुद्धयस्व बुद्धया गुरुरेव यत् त्वम् // 137 // शा. 22