________________ 168 श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः / अथ कुमारोक्तिमाह-सिद्ध इति सिद्धोऽसि चेद् भैरवसाधकस्य, समीहितं साधय साधयाऽस्य / विनिर्मिते चैवमवश्यमेव, भविष्यसे त्वं कृतकृत्यभावम् // 129 // सिद्धो वशोऽसि चेत् त्वमित्यर्थवशाल्लभ्यते, तर्हि, अस्य भैरवाख्यस्य साधकस्य समीहितं साधय साधय, आग्रहे द्विरुक्तिः एवं मदुक्तप्रकारेण त्वया विनिर्मिते कृते च त्वमवश्यमेव कृतकृत्यभावं कृतकृत्यतां भविष्यसे प्राप्स्यसे, मम तु स्वस्य न प्रयोजनमिति भावः अत्र भैरवेति सम्बोधनान्तपाठः नातीवरुचिरः, यद्वा भैरव ! भयङ्कर : इति प्रेतसम्बोधनमेव तदापिसाधकस्येति भैरवाल्यसाधकस्येत्येवार्थः // 129 // अथमेघनादोक्तिमाह-जगादेति जगाद भूयोऽपि स मेघनादः, सत्त्वेन ते कामितमस्य दत्तम् / समीहितं प्रार्थककल्पवृक्ष !, किञ्चत् परं प्रार्थय निःस्पृहोऽपि // 130 // भूयः पुनरपि स मेघनादः जगाद. किमित्याह-ते तव सत्त्वेन बलेन हेतुना अस्य भैरवस्य कामितमिष्टं दत्तम् , किन्तु प्रार्थकेषु याचकेषु विषये ईहितप्रदत्वात्कल्पवृक्ष / तत्तुल्य ! निःस्पृहोऽपि त्वं किञ्चित्परमन्यत्समीहितं प्रार्थय वृणीष्व // 130 // अथ कुमारकृतवरप्रार्थनमाह-इतीति इत्येष तस्यैव महाग्रहेण, प्रणुन्नरूपोऽभिदधे कुमारः / - सा प्रेयसी मे वशगाऽस्तु तर्हि, विज्ञाय वित्याऽथ स चावदत् - तम् // 131 // इत्युक्तप्रकारेणैव तस्य मेघनादस्य महता आग्रहेण कृत्वा प्रणुन्नरूपः प्रेरितः कुमारः गुणवर्मा अभिदधे उक्तवान्, किमित्याह--तर्हि सा प्रेयसी प्रियतमा कनकवती मे मम वशगा अस्तु, अथ कुमारवरप्रार्थनानन्तरम् स मेघनादः वित्या ज्ञानेन विज्ञाय ज्ञात्त्वा तं गुणवर्माणं प्रत्यवदत् // 131 // अथ क्षेत्रपालोक्तिमेवाह-सेति-- सा कामरूपत्वमधिष्ठितस्य,वशे भविष्यत्यचिरात् तवाऽपि, / तद् मे प्रसादाद् दलितावसादाद, विचिन्ततं ते भवताद् यथेच्छम्, / 132 // सा त्वत्प्रिया कनकवती कामरूपत्वम् यथेष्टरूपत्वम् अधिष्ठितस्य प्राप्तस्य, यद्वा कामः स्मरः स इव रूपं यस्य तद्भावम् कामवत्सौन्दर्यमित्यर्थः तव गुणवर्मणः अचिरादपि शीघ्रमेव वशे भविष्यति त्वदधीना स्यादित्यर्थः / नन्वेतत्कथं भविष्यतीति चेत्तत्राह--दलितः दूरीकृतः नाशितो वा अवसादः मनः पीडा येन तादृशान्मे मम क्षेत्रपालस्य प्रसादात् ते तव विचिन्तितं प्रार्थितं तत्प्रियावशीकरणम् यथेच्छमिच्छानुरूपं भवताद्भवतु इत्याशासे // 132 //