________________ आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 167 * अरे ! महामूढ ! विलज्ज ! त्वं मेघनादप्रेतः शारदवादः शरदतुमेघः, यो गर्जत्येव न तु वर्षति तद्वत् किं गर्जि गर्जनां करोषि ? न गर्जनमात्रेणेष्टसिद्धिरिति विफलं तदित्यर्थः / ननु तर्हि किं कर्त्तव्यमिति चेत्तत्राह-यदि दोर्दण्डयोः बाह्वोः शौण्डीर्यम् पराक्रमः अवार्यमप्रप्रतिहतं वीर्य चास्ति, तत्तर्हि द्राक् मे मम पुरतोऽग्रतः, युद्धायेति भावः / भव तिष्ठ // 124 / अन्यथा प्रलापी त्वमित्याह-निरेति-- निरर्थकं यो वचनं ब्रवीति, विशिष्यते स ग्रहिलाद न धीरैः / राजाऽहमस्मीति वदन् नरेन्द्र-र्न साधुवद् दण्ड्यत एव यत् सः // 125 / / यः पुमान् निरर्थकं निष्फलं वचनं ब्रवीति धीरैः पुरुपैः स निरर्थकवादी ग्रहिलात् ग्रहगृहीतान्न विशिष्यते, मत्त एव मन्यते इत्यर्थः सः निरर्थकवादी राजा अहमस्मीत्येवं वदन् नरेन्द्रः कर्तृभिः साधुवन्न दण्ड्यत एव, अपि प्रलाप्युन्मत्तवदेवोपेक्ष्यते इत्यर्थः // 125 // अथ तस्य युद्धप्रक्रममाह-इतीति इति ब्रुवाणः स पुरःस्थितं तं, निरायुधं प्रेक्ष्य सुरं सलज्जः। हित्वाऽऽयुधं शूरशिरोललामो, नियुयुद्धाय समुद्यतोऽभूत् // 126 // शूराणां शिरोललामः शिरोमणिः स गुणावर्मा इत्युक्तप्रकारेण वाणः पुरः स्थितं तं मेघनादं सुरं प्रेतं निरायुध निःशस्त्रं प्रेक्ष्यावलोक्य सलज्जः सन् , सायुधेन निरायुधस्य युद्धायाहानामनुचितमिति लज्जेति भावः आयुधमस्त्रं हित्वा त्यक्त्वा नियुद्धयुद्धाय बाहुयुद्धाय-"नियुद्धं बाहुयुद्धे" इत्यमरः / मल्लयुद्धाय वा समुद्यतोऽभूत् / / 126 // ___ अथ मेघनादपराजयमाह-कुमारेति-- कुमारदोर्दण्डनियन्त्रितोऽसौ, श्रीक्षेत्रपालो विरसं रसन् सः / प्राह स्वयं विस्मयमादधानः, कुमार ! मां सात्त्विक ! मुश्च मुञ्च // 127 // ___ कुमारस्य गुणवर्मणः दोर्दण्डाभ्यां नियन्त्रितः नियुद्धे बद्धः पीडितश्च असौ स श्रीक्षेत्रपाल: मेघनादः विरसं करुणं विकृतं वा रसन् क्रन्दन् विस्मयमाश्चर्यम् , मनुष्येऽपि तादृशबल. दर्शनादिति भावः / आदधानः स्वयं प्राह -किमित्याह--सात्त्विक ! बलशालिन् कुमार ! मां मुञ्च, मुञ्च, भये पीडायाञ्च द्विरुक्तिः // 127 // __ अथ प्रेतप्रसाइमाह-अहमिति अहं महासत्त्व ! तवाऽस्मि सिद्धो, वरं वृणीष्वेप्सितमाशयस्य / निशम्य तस्योक्तमिदं नृपस्य, सुतस्तमित्याह स साहसाढयः // 128 // महासत्त्व ! महाबल ! अहं क्षेत्रपालः तव कुमारस्य सिद्धः वशोऽस्मि, आशयस्य मनसः ईप्सितं वरं वृणीष्व, तस्य मेघनादस्येदमुक्तं निशम्य साहसाढ्योऽतिसाहसी स नृपस्य सुतः गुणवर्मा तं मेघनादं प्रतीति वक्ष्यमाणमाह सः // 128 //