________________ 166 श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः / हुङ्कारेण संपूरितः खप्रदेश आकाशं येन स च करे खण्डितं भग्नं मण्डलायं खङ्गं दधत् प्रेतपतिर्यमः स इव प्रकार विशेषो यस्य स यमसदृशः एकः महापुमान् निरगात्प्रादुर्बभूव // 129 / / // 120 // अथ तत्प्रेतस्य चरितमाह सोऽप्येवमाचष्ट निरस्तशङ्को, निकृष्ट ! रे भैरव ! भैरवाङ्गात्(गः) / त्वया किमारब्धमिदं मदेन, पूजामकृत्वा मम बुद्धिहीन ! // 121 // स इति स भैरवाङ्गः भीषणदेहः महापुमानपि निरस्तशङ्कः निःशङ्कः सन् एवम् आचष्ट जगौ, एवमिति किमित्याह-रे / निकृष्ट नीच ! बुद्धिहीन ! अनुचिताचरणत्वान्मूर्ख ! भैरव ! भैरवाचार्य, मम प्रेतस्य पूजामकृत्वा त्वया भैरवेण मदेनाभिमानपूर्वकम् इदं दृश्यमानं भैरवाङ्गात् भयङ्करशरीरात् किमारब्धम् तवैष प्रयासो निष्फलो भवितेति भावः अत्र भैरवाङ्गादिति पाठोऽन्वयानुपपत्त्या शोधकप्रमाद इव प्रतिभाति, ततो मया भैरवाङ्ग इति पाठः कल्पित इत्यवधेयम् // 121 // ननु त्वं कोऽसि, यदेवं वदसीति चेत्तत्राह क्षेत्रस्येति क्षेत्रस्य चास्म्यस्य महाप्रभावः, स्वामी प्रसिद्धः खलु मेघनादः / त्वद्दुनयस्याऽस्य फलं स्वशक्तया, तद् दर्शयाम्येव तवाधुनाऽहम् // 122 // अस्य क्षेत्रस्य श्मशानरूपस्य महाप्रभावः वलवान् मेघनादः तदाख्यः' प्रसिद्धः स्वामी अस्मि खलुः एवं च क्षेत्रपालत्वान्ममानादरोऽपराध इति भावः / तत्ततः अहं मेघनादः अधुना एव स्वशक्तया कृत्वा तव अस्य त्वद्दुर्नयस्य ममापमानरूपस्य फलमहं एव निश्चयेन दर्शयामि त्वां निगृह्णामीति यावत् // 122 // अथ गुणवर्मसाहसमाह-इतीति इति जल्पन्तमिमं स्वनाद-वित्रासिताग्र्योत्तरसाधकं तम् / उत्क्षिप्य कौक्षेयकमादृतक्रु-ज्जगाद वं दृढवमसूनुः // 123 // इत्युक्तप्रकारेण प्रजल्पन्तम् स्वस्य नादेन शब्देन वित्रासितः भयं प्रापितः अग्रयः प्रधानः उत्तरसाधको येन तमिमं मेघनादाख्यं प्रेतम् दृढवर्मसूनुः गुणवर्मा आदृता कुत् क्रोधो येन स तादृशः क्रुद्धः सन् कौक्षेयकमसिमुत्क्षिप्योद्यम्य चैवं वक्ष्यमाणप्रकारेण जगाद // 123 // एवमिति किमित्याह-अरे इति अरे ! महामृढ ! विलज्ज ! गजि, करोषि किं शारदवार्दवत् त्वम् / दोर्दण्डशौण्डीर्यमवार्यवीर्य, यद्यस्ति तन्मे पुरतो भव द्राक् // 124 //