SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ 165 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अदं तेषां क्रमशो दिश्यवस्थानमाह ते इति ते पूर्वयाम्यापरदिक्षु तस्थुः,क्रमात् त्रयोऽपि प्रहतप्रमादाः / स धैर्यवर्मा दृढवमसनु-भयं विहायोत्तरदिश्यतिष्ठत // 116 // ते त्रयोऽपि भैरवशिष्याः प्रहतप्रमादाः अप्रमत्ताः सन्तः क्रमात् पूर्वस्यां याम्यायां दक्षिणस्यामपरस्यां पश्चिमायां च दिक्षु तस्थुः, धैर्यं वर्म कवचं यस्य स तादृशः धीरः स दृढवर्मसूनुः गुणवर्मा भयं विहायोत्तरदिश्यतिष्ठत् // 116 // अथतत्रोत्पातमाह अथो इति अथो शिवासंहतिवासितानि, घोराण्यभूवन परितोऽशिबानि / वेतालमालाः कलिताट्टहासं, शब्दान् निचक्रुर्भयबीजभूतान् // 117 // एतेषां निवेशानन्तरमित्यर्थः परितः समन्ततः शिवानां शृगालीनां संहतिभिः समूहैः वासितानि कृतानि अशिवानि अमङ्गलानि घोराणि भयङ्कराणि अभूवन् घोरशब्दा अजनिष्यत तथा, वेतालानां प्रेतयोनिविशेषाणां मालाः समुदायाः कलितःकृतोऽट्टहासो यथास्यात्तथा भयस्य बीजभूतान् कारणीभूतान् भयजनकानिति यावत् ,शब्दान् निचक्रुः कर्तुमारेभिरे // 117 // अथ तत्रनिर्धातमाह अत्रेति-- ___ अत्रान्तरे वारिदघोषवादी, निर्यात एकः प्रससार सारः / पुस्फोट तेनैव वसुन्धरेयं, वियोगिवक्षःस्थलवत् प्रकामम् // 118 // अत्रान्तरे / अस्मिन्नवसरे, "अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादयें” इतिकोशः एकः वारिदस्य मेघस्य घोषो गर्जनं तद्वदतीत्येवं शीलः सारः बलवान् निर्घातः शब्दविशेष्यः तेजोविशेषो वा प्रससार सर्वतो व्याप्नोत् , तेन निर्धातेनैव इयं वसुन्धरा पृथ्वी वियोगिनः वक्षःस्थलवत् प्रकाममत्यर्थं पुस्फोट विदीर्णा जाता // 118 // अथ तत्र प्रेतप्राकटयमाह-युग्मेन-एक इति एकस्तदन्तर्निरगात् कराला-कारान्धकारावजयी जवेन / कृशोदरोऽत्युघुषितोर्ध्वकेशः, कठोरवाहुद्वयदीर्घजः // 119 // पिङ्गेक्षणो दृश्यनिशातपशु-हुङ्कारसंपूरितखपदेशः।। दघत् करे खण्डितमण्डलागू, महापुमान् प्रेतपतिप्रकारः // 120 // तस्य निर्घातस्यान्तर्मध्यात् जवेन वेगेन करालाकारः भयङ्कराकृतिः अन्धकारस्य अवजयी कालवर्णत्वेन ध्वान्ताधिकः कृशोदरः अत्युघुषितः घोषमतिशयेन कुर्वन् ऊर्ध्वकेशः कठोरं बाहुद्वयं दीर्धे जो च यस्य स तादृशः पिङ्गेक्षणः पीतनेत्रः दृश्यः निशातस्तीक्ष्णः पशुरायुधविशेषो यस्य स चासौ
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy