________________ श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः / पाणौ हस्ते कुम्भीन्द्रस्य गजेन्द्रस्य कुम्भस्थलस्य भेदे खण्डने शक्तं समर्थं निशितं तीक्ष्णम् कृपाणं खड्गं दधानः, प्रतापेन स्वतेजसा क्षतः पराजितश्चित्रभानुः सूर्यो येन स तादृशोऽयं गुणवर्मकुमारः स्मशाने सङ्केतितम् पूर्वसूचितचिह्न स्थानं प्राप 'चित्रभानुर्विवस्वा'निति हैमः // 211 // अथ तस्य भैरवसङ्गममाह तमिति-- तं भैरवाचार्यकमात्मतुर्य, तत्र व्यलोकिष्ट विलोक्यभक्तिः / सोऽपि क्षमानायकनन्दनं तं, जटाधरः पादनतं बभाषे // 112 // विलोक्या स्तुत्या भक्तिर्यस्य स तादृशः गुणवर्मा तत्र स्मशाने आत्मा स्वस्वरूपमेव स्वीयात्मा तुर्यश्चतुर्थो यस्य तादृशं भैरवाचार्यकम् शिष्यत्रयसहितं व्यलोकिष्ट ददर्श, स जटाधरः भैरवाचार्योऽपि पादयोः नतं प्रणतं तं क्षमानायकनन्दनं राजपुत्रं गुणवर्माणं बभाषे // 112 // तदुक्तिमेवाह शिष्येति शिष्यत्रयेणान्वितमात्मबोध-प्रागल्भ्यशालीव हृदि स्मशाने / त्रायस्व मां साध्वससंकुलेऽस्मिन् , नेत्रत्रयेणेव ललाटनेत्रम् // 113 // हृदि आत्मबोधस्यात्मज्ञानस्य प्रागल्भ्येन वैशयेन शालते इत्येवं शीलः मुनिरिव स्वस्वरूपज्ञानकुशलः त्वम् गुणवर्मा साध्वसेन भयहेतुना सङ्कुले व्याप्ते भयङ्करेऽस्मिन् स्मशाने नेत्रत्रयेणान्वितं ललाटनेत्रं शिवमिव शिष्यत्रयेणान्वितं मां भैरवाचार्य त्रायस्व रक्ष // 113 // अथ भैरवाचार्यस्य मण्डलादिकरणमाह आमेति-- आमेति तस्मिन् परिभाषमाणे,भूपालपुत्रे स जटाधरोऽपि / अमण्डयद् मण्डलमीक्षितं प्राक, तदन्तरे द्राक् मृतकं च रौद्रम् // 114 // भूपालपुत्रे गुणवर्मणि आमेतीत्थं स्वीकारसूचके शब्दे भाषमाणे सति स जटाधरः भैरवाचार्योऽपि प्राग् पुरैव ईक्षितं विचारितं मण्डलमनुष्ठानाय निर्मितं शोधितं च स्थानविशेषममण्डयत् उपकरणादिना सज्जं कृतवान् , तस्य मण्डलस्यान्तरे मध्ये द्राक् शीघ्रमेव रौद्रम् उग्रम् "रौद्रं तूप्रममी त्रिष्वि" त्यमरः / मृतकं शवं च अमण्डयदिति सम्बध्यते // 114 // अथ तस्य होमादिविधानमाह तदेति-- तदाननान्तर्बलने प्रणीते, प्रज्वालितेऽनेन जटाधरेण / कर्तुं समारभ्यत मन्त्रजाप-पुरःसरं होमविधिर्विशङ्कम् // 115 // अनेन जटाधरेण भैरवाचार्येण प्रणीते "प्रणीतः संस्कृतोऽनलः" इति हैमः / प्रज्वालिते तस्य मृतकस्य आननस्य मुखस्यान्तर्बलनेऽग्नौ विशळे विगतभयं यथास्यात्तथा मन्त्रजापपुरस्सरं होमविधिः कर्तुं समारभ्यत // 115 //