________________ 163 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अंथ कुमारस्य तत्स्वीकारमाह-महेति महाप्रसादोऽयमयि प्रजल्प-न्नित्यभ्यवत्ताऽथ पुनः कुमारः / कस्मिन् दिने कुत्र पवित्रगात्राः, साहाय्यमेतत् क्रियतां मयाऽपि // 107 // अयि, पवित्रगात्राः अयं भवन्निदेशः मयि महाप्रसादः महती कृपा, इति उक्तप्रकारेण प्रजल्पन्नथान्तरं पुनः कुमारो गुणवर्मा अभ्यधत्तोवाच-किमित्याह-मया गुणवर्मणा कस्मिन्दिने कुत्रस्थाने एतद्भवन्निर्दिष्टं सहाय्यमुत्तरसाधकत्वरूपं क्रियताम् तद्वदेतिशेषः / / 107|| अथ भैरवस्य दिनादिकथनमाह जटीति जटी जगौ खडगवता श्मशाने, श्याम चतुर्दश्यभिधानधुर्ये / तिथौ निशायाः प्रहरे द्वितीये, त्वया समागम्यमगम्यधाम्ना // 108 // जटी भैरवाचार्यो जगौ, किमित्याह खड्गवता असिहस्तेन अगम्यधाम्ना अपरिमेयबलेन त्वया गुणवर्मकुमारेण श्याम कृष्णपक्षे चतुर्दशीत्यभिधानस्य धुर्ये चतुर्दशीतिथौ निशाया रात्रेः द्वितीये प्रहरे अर्धरात्रे इत्यर्थः, शमशाने समागम्यमागन्तव्यम् // 10 // अथ कुमारस्वीकारोक्तिमाह त्रिभिरिति त्रिभिर्जनैः सार्धमतन्द्रितात्मा, स्थास्यामि तत्राहमकम्प्रवृत्तिः / ओमित्युदीर्य प्रतिपत्तिसारं. स राजसूनुर्निजसौधमागात् // 109 // अकम्प्रा स्थिरा वृत्तिः क्रिया यस्य स तादृशः निश्चितक्रियः अहं भैरवः तत्र श्मशाने त्रिभिः जनैः सार्धमतन्द्रितात्मा अनलसः सन् स्थास्यामि भविष्यामि, स राजसूनुः गुणवर्मा प्रतिपत्त्या स्वीकृत्या सारमुत्तमं यद्वा प्रतिपत्तिः स्वीकृतिरेव सारः अभिधेयत्वेन स्थिरांशो यस्मिन् तद्यथा स्यात्तथा ओमिति स्वीकृतिवाचकं शब्दमुदीर्योक्त्वा निजसौधमगात् // 109 // अथ कुमारस्य श्मशानगमनमाह समेति समागतायां क्रमशोऽथ तस्यां, तिथौ विसृज्याऽनुचरव्रजं सः / विनिर्ययौ स्वीकृतवण्ठवेषः, प्रदोषकाले हतदोषजालः // 110 // अथानन्तरं क्रमशः तस्यां चतुर्दश्यां तिथौ समागतायां प्राप्तायां सत्यां स गुणवर्मा अनुचरनजं भृत्यसमूहं विसृज्य त्यक्त्वा स्वीकृतः वण्ठस्य दासादेः पुरुषविशेषस्य वेषो येन स तादृशः हतं दोषजालं यस्य स तादृशः निर्दोषः स गुणवर्मा प्रदोषकाले सन्ध्याकाले विनिर्ययौ श्मशानगमनाय गृहान्निर्गतः // 110 // अथ तस्य श्मशानप्राप्तिमाह पाणाविति-- पाणौ कृपाणं निशितं दधानः, कुम्भीन्द्रकुम्भस्थलभेदशक्तम् / सकेतितं स्थानमयं श्मशाने, पाप प्रतापक्षतचित्रभानुः // 111 //