________________ www 162 श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः। दानसिद्धा परम्परया प्रयोजकमाह धनमिति धनं विना नैव कदापि दानं, संपद्यते तत् सुकृतं विना न / तदेव लोके विनयं विना न, स चापि मानापगमं विना न // 103 // धनं विना दानं कदापि नैव सम्पद्यते, देयं हि धनमेवेति भावः, तद्धनं च सुकृतं विना न, सम्पद्यते, तत्सुकृतं लोके विनयं शिष्टसमयानुपालनं विना नैव, सम्पद्यते, स विनयश्चापि मानापगममनभिमानितां विना न सम्पद्यते, अभिमानी हि गुर्वतिक्रान्ता, तत्र च विनयावसर एव नास्तीति भावः / एवञ्च दानसिद्धौ परम्परया निरभिमानितैव प्रयोजकमित्यभिप्रायः, विनोक्तिरलङ्कारः // 103 // अथ कुमारप्रतिवचनमाह निशम्येति निशम्य चेदं न्यगदत कुमारः, कुमारशौर्यप्रतिघातिसारः / भवादृशां दर्शनमेव मानः, सत्कार एवेश ! निदेशनं मे // 104 // .. इदं भैरवोक्तं निशम्य च कुमारस्य कार्तिकेयस्य शौर्यस्य प्रतिघाती विडम्बकः सारो बलं यस्य स तादृशः कुमारः गुणवर्मकुमारः न्यगदत्, किमित्याह-ईश ! स्वामिन् ! भवादृशां मुनीनां दर्शनमेव मानः पूजा, तथा भवादृशां मे मह्यं निदेशनमाज्ञापनमेव सत्कारः भवान् स्वप्रयोजनं चेन्मामादिशति तदेव भवत्कृतो मे सत्कारः, न तु भवतो मयि सत्कारान्तरं युज्यते इति कुमारस्य विनयातिशय उक्तः // 104 // अथ स्पष्टमेवाशां याचते तदुक्तहेतोः प्रसोति प्रसद्य तद् ब्रत निदेशमेकं, कुर्वे यथाहं तव किङ्करोऽस्मि / / इतीरिते तेन स भैरवोऽद्धा, बोद्धाऽस्य कार्य निजमाचचक्षे // 105 // प्रसद्य प्रसादपूर्वकम् , एकं कमपि निदेशमाज्ञां ब्रूत दत्त यथा अहं कुर्वे सम्पादयामि, यतोऽहं तव किङ्करः सेवकोऽस्मि इतीत्थं तेन गुणवर्मकुमारेणोक्ते सति स भैरवः अद्धा निश्चयेन बोद्धा विज्ञः अस्य गुणवर्मकुमारस्य निजं कार्यमाचचक्षे कथितवान् // 105 // किन्तकार्यमित्याह समिति संवत्सरानष्ट मया कृतोऽस्ति, सन्मन्त्रजापस्य परिश्रमस्तत् / एकां निशां यावदपप्रमाद-स्त्वं संश्रयस्वोत्तरसाधकत्वम् // 106 // मया भैरवेण अष्टसंवत्सरान् यावत् सतो विशिष्टस्य मन्त्रस्य जापस्य परिश्रमः कृतोऽस्ति तत्ततः त्वम् गुणवर्मा अपप्रमादः सावधानः सन् एकां निशां यावत् उत्तरसाधकत्वं मुख्यसाधकसहायकसाधकत्वं संश्रयस्व स्वीकुरु // 106 //