________________ आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् ___ यद्यतः मया भैरवेण मुनिना बाल्यमारभ्य मनागीषदपि धनस्य सङ्ग्रहः सञ्चयः नैव व्यधाय्यकारि / ननु धनेन कि प्रयोजनं साम्प्रतं ते इति चेत्तत्राह-तेन धनेन विनालोकव्यवस्था लोकाचारः अतिथिसत्कारादिरूपः कदाचनाऽपि घटनां सम्पन्नतां नैवोपैति // 99 // द्रव्यमेव व्यतिरेकमुखेन स्तौति-नेति न गौरवं क्वापि गुणा लभन्ते, कर्म प्रसिद्धिं भजते न चापि / न चापि सामान्यविशेषसिद्धि-द्रव्यं विना नो समवाय एव // 100 // द्रव्यं विना गुणाः कापि गौरवं न लभन्ते, दरिद्रस्य सन्तोऽपि गुणा न पूज्यन्ते इति गुणपुजायां द्रव्यमेव प्रयोजकमित्यर्थः / तथा कर्म क्रिया प्रसिद्धिं ख्यातिं सफलतां वा न चापि भजते प्राप्नोति अर्थप्रधाना क्रिया इति भावः यद्वा द्रव्याश्रया गुणाः कर्म च द्रव्याश्रितमिति द्रव्यरूपाश्रयाभावे गुणकर्मणी कुत्र तिष्ठेते इति गौरवं गुणा न प्राप्नुवन्ति कर्म च प्रसिद्धिं न भजते, सामान्यस्य विशेषस्य च द्रव्ये गुणाद्यांश्रये सत्येव नित्यानेकसमवेतरूपस्य सामान्यस्य स्वतोव्यावृत्तरूपस्य नित्यद्रव्यवृत्तेर्विशेषस्य च यद्वा अल्पद्रव्यवान् सामान्यः प्रचुरद्रव्यवांश्च विशेषः दरिद्र इभ्यो वा, इत्येवंप्रकारयोः सामान्यविशेष्ययोः सिद्धिरुपपत्तिः नचाऽपि तथा द्रव्यं विना, समवायः नित्यः सम्बन्धः समूहो वा नो नैव, गुणादीनां समवायेन द्रव्यमाश्रयः द्रव्याभावे समम्बन्ध्यभावात्सम्बन्धोऽपि न स्यात् , तदा सुवर्णादि द्रव्यवत एव समवायः कुटुम्बपरिजनमित्रभृत्यादिरूपः, न तु निःस्वस्येत्यर्थः / अत्र श्लेषेण द्रव्ये शास्त्रीयव्यवहारसमाप्तेव इति समासोक्तिः // 10 // ननु द्रव्ये सत्यपि किं तेनेति चेदानमेव तत्प्रयोजनमिति भङ्गयन्तरेणाह कान्तेनेति कान्तेन कान्तेन विशा कलत्रं, जलेन मिष्टेन यथा तडागः। ____ जिनेन देवेन यथैव चैत्य, तथैव दानेन धनं विभाति // 101 // विशा द्रविणवता कान्तेन मनोहरेण कान्तेन प्रियेण यथा कलत्रं स्त्री, यथा वा मिष्टेन स्वादुना जलेन तडागः, यथैव च जिनेन वीतरागदेवेन चैत्यं मन्दिरं, तथैव दानेन धनं विभाति शोभते धनं दानफलमित्यर्थः // मालोपमा // 101 // ननु दानेन किं साध्यमिति चेत्तेत्राह पूजेति___ पूजा गुरूणां यदि वा सुराणां, संमाननं सज्जनमार्गणानाम् / प्रेमप्रथा भक्तिविकाशनं च, नैतानि दानेन विना भवन्ति // 102 // गुरूणां यदि वा सुराणां पूजा द्रव्यपूजा, किञ्च सज्जनानां मार्गणानां याचकानाञ्च सन्माननं तोषणम् प्रेमप्रथा प्रेमख्यापनम् भक्तेः विकासनं, वर्धनं च एतान्युक्तानि कार्याणि दानेन विना न भवन्ति, द्रव्यदानं विना नैतानि सिद्धयन्तीति भावः // 102 // शा. 21