________________ 160 श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः। अर्थ तस्य गमनमाह-एतदिति एतन्निशम्योज्झिततल्पकल्पः, प्रभातकृत्यं पवितत्य तूर्णम् / अभैरवाकारपरार्धरूपः, स भैरवाचार्यसमीपमाप // 95 // एतद् बन्धुक्तं निशम्य उज्झितः त्यक्तः तल्पः शय्याकल्पो रात्रिवेशश्च येन स तादृशः स गुणवर्मा तूर्ण शीघ्र प्रभातकृत्यं प्रवितत्य समाप्य अभैरवः सौम्यः आकारेण परार्धरूपः असाधारणश्च स भैरवाचार्यस्य समीपमाप // 95 // प्रेति-- प्रत्युद्गतं दर्शनमात्रतोऽपि, जटाधरं सोऽपि तमाननाम / जटी प्रदायाशिषमाप्रहर्षः, स्वचर्मपीठाधकमुत्ससर्ज // 16 // ___ स गुणवर्माऽपि प्रत्युद्गतं सम्मुखमागतं जटाधरं तं भैरवाचार्य दर्शनमात्रतोऽपि दृष्दैव आननाम, जटी जटावान् भैरवाचार्यः आशिष प्रदाय आग्रहर्षः अतिहृष्टः सन् स्वस्य चर्मपी .. ठस्य मृगचर्माद्यासनस्यार्धकमर्धभागमुत्ससर्ज ददौ, उपवेशनायेति शेषः // 16 // अथ तस्य शिष्टाचारमाह-नैवेति, नैवाऽऽसनार्धे च गुरोर्ममाऽपि,युक्ता स्थितिः स्यादिति स ब्रुवाणः / निजस्य वण्ठस्य वसुन्धरायाम्, पटे विमुक्ते निषसाद धन्यः // 97 // गुरोः तव आसनार्धे च ममाऽपि स्थितिरुपवेशनं युक्तोचिता नैव स्यात् "नैकत्रासने : गुरुणा सह संवसेदि" त्युक्तेरिति भावः इतीत्थं ब्रुवाणः धन्यः स्तुत्यः स गुणवर्मा वसुन्धरायां पृथिव्यां निजस्य वण्ठस्य भृत्यस्य शेषे षष्ठी भृत्येनेत्यर्थः विमुक्ते स्थापिते पटे वस्त्रे निषसादोपविवेश // 97 // अथ तस्य भैरवकृतोपचारमाह-आलापेति आलापमाधाय मुहूर्तमात्र-मौचित्यसंभावितमुज्जगार। स भैरवोऽभ्यागतराजपुत्र !, कां सत्क्रियां ते वितनोमि चाहम् ? // 18 // भैरवः भैरवाचार्यः औचित्येन सम्भावितम् कुशलादिप्रश्नरूपावसरोचितमालापं मुहूर्तमात्रं किञ्चित्कालमाधाय कृत्वा उज्जगारोक्तवान् / किमित्याकाङ्क्षायामाह-अभ्यागत ! अतिथे ! राजपुत्र ! अहं भैरवः ते तव का सक्रियां त्वद्योग्योपचारं वितनोमि करोमि, ? त्वं स्वेष्टं किञ्चिद्धदसि चेत्कर्तुमीहे, यद्वा त्वत्सत्कारयोग्यसामग्रयाः ममाकिञ्चनस्य सर्वदेवासत्त्वमिति त्वत्सकारं कर्तुं नाहं समर्थ इत्यर्थः // 98 // सत्काराकरणे साग्रयभावमेवाह यदिति यद् बाल्यमारभ्य मया धनस्य,परिग्रहो नैव मनाग व्यधायि / विना न तेनैव कदाचनाऽपि, लोकव्यवस्था घटनामुपैति // 99 // ..