________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / 159 "मुने : तत्र भैरवाचार्यपाधै प्रभाते आगमिष्यामि इतीथमीरयित्वा कथयित्वा स गुणवर्मकुमारः तं परिवाजं विससर्ज गमनायानुज्ञातवान् अत्रान्तरे अस्मिन्नवसरे कालस्य निवेदने सूचने उत्क उत्सुकः अपापशापः पापशापरहितः बन्दी इदं वक्ष्यमाणं पपाठ // 90 // इदमिति किमित्याह-तम इति तमो निहत्याभ्युदयं प्रपन्नः, सर्वत्र दीप्तिप्रकरं वितत्य / मन्दायमानातिरेप देव !, प्रद्योतनः साम्प्रतमस्तमेति // 91 // देव ! अभ्युदयं वृद्धिमुदयं च प्रपन्नः प्राप्तः सर्वत्र भुवने दीप्तेः प्रकरं समूह वितत्य प्रसार्य तमोऽन्धकारं निहत्य एष प्रद्योतनः सूर्यः साम्प्रतम् मन्दायमानधुतिः संक्षिप्तकिरणः सन्नस्तमस्ताचलमेति गच्छति, सन्ध्यासमयः प्राप्त इत्यर्थः // 91 // अथ तस्य सन्ध्यादिकृत्यमाह-इमिति- इदं समाकये समुद्यम स, मापाङ्गजः सान्ध्यविधौ व्यधत्त / विसृज्य भृत्यानपि सन्निधिस्थान् निद्रामुखं संश्रयति स्म किञ्चित् / / 92 // इदं बन्धुक्तं समाकर्ण्य स मापाङ्गजः नृपपुत्रः गुणवर्मा सान्ध्यविधौ सन्ध्याकालिककमणि समुद्यम प्रवृत्ति व्यधत्त कृतवान्, तथा सन्निधिस्थान् समीपस्थान् भृत्यान् विसृज्य गमनायादिश्य किञ्चिन्निद्रासुखमपि संश्रयति स्म, सुष्वापेत्यर्थः // 92 / / अथ प्रातरुद्बोधमाह-अहरिति-- अहमुखे मङ्गलतूयंतार-नादेन पद्माकरवद विबुद्धः। आकर्णयन् मङ्गलपाठकेन, प्रपठयमानं मधुरं स चेदम् // 13 // अहरिति अहर्मुखे प्रभाते मङ्गलानां तूर्याणां वाद्यानां तारेणात्युच्चेन नादेन शब्देन श्रुत्वा पद्माकरवत्कमलखण्डवद् स गुणवर्मकुमारः मङ्गलपााठकेन वैतालिकेन मधुरं श्रुतिप्रियं यथास्यात्तथा प्रपठ्यमानमिदं वक्ष्यमाणमाकर्णयन् च विबुद्धः गतनिद्रोऽभूत् // 93 // इमिति किमित्याह-भास्वानिति भास्थानसावभ्युदयं तनोति, विश्वोपकारप्रवणस्वभावः / तमो विनिघ्नन् परितः प्रसर्प-द्भवानिवाऽव्याहतगोपचारः // 94 // असौ भास्वान् सूर्यः भवानिव विश्वस्य लोकस्योपकारे हितकरणे प्रवणस्तत्परः स्वभावो यस्य स तादृशः अव्याहतः अप्रतिहतः गोः किरणस्य बाणस्य वाण्या वा प्रचारो यस्य स तादृशः परितः तमोऽन्धकारं प्रजादुःखं च विनिघ्नन् नाशयन् प्रसर्पन शनैरुपरि गच्छन्नुदयमुद्गमनमभ्युदयं च तनोति करोति, रूपकोत्थापितोपमालङ्कारः // 94 / /