________________ 158 श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः। ____ पुनः रमणानन्तरं स्वं सौधं समुपागतः अयं गुणवर्मकुमारः पूर्व विलेपनं स्नानाभ्यङ्गानुलेपनादि, पश्चाच्च भुजिक्रियां भोजनं च कृत्वा सभां संप्रतिपद्याश्रित्य तिष्ठन् नन्त्रा प्रणामपरेण दौवारिकेण द्वारपालेन एवं वक्ष्यमाणप्रकारेणावादि कथितः // 85 // एवमिति-किमित्याह-कश्चिदिति कश्चित् परिवाइ नियतः कुमार !, द्वारि स्थितस्त्वां स दिदृक्षुरस्ति / प्रवेश्यतां तर्हि स शीघ्रमेवे-त्युक्तस्तथा सोऽपि चकार विद्वान् // 86 // कुमार ! कश्चिद् नियतः संयमी परित्राट् द्वारि स्थितोऽस्ति, स त्वां दिदृक्षुः द्रष्टुमिच्छुरस्ति तर्हि स परिव्राट् शीघ्रमेव प्रवेश्यतामितीत्थमुक्तः विद्वान् धीमान् स द्वारपालोऽपि तथा चकार कृतवान् // 86 // अथ परिव्राजं युग्मेन वर्णयति-तदिति -. तत्सन्निधानं गुणसन्निधानं, प्राप्तः परिव्राइ विकृताकृतिः सः। आशीगिराऽनन्तरमेव तेन, भद्रासने भद्रतमेऽपि दत्ते // 87 // उपाविशत् तत् पविहाय वृष्यां, समाहतायां सममात्मनैव / पृष्टस्त्वभाषिष्ट गुरुपतिष्ठः, समागमस्यापि निदानमेवम् // 88 // युग्मम् गुणानां सन्निधानं सामीप्यं यत्र तं तादृशं तस्य गुणवर्मकुमारस्य सन्निधानं सामीप्यं प्राप्तः विकृताकृतिः विरूपः स परिवाद आशीर्गिरा आशीर्वचनपूर्वकम् अनन्तरं तकालमेव तेन कुमारेण दत्तेऽपि भद्रतमे अत्युत्तमे भद्रासने तत्प्रदत्तमासनं प्रविहाय आत्मना स्वयमेव समाहतायामानीतायां वृष्यामासने उपाविशत् गुरुरिव प्रतिष्ठा पूजा यस्य स तादृशः - पृष्टः जिज्ञासितस्तु समागमस्य स्वकीयागमनस्य निदानम् हेतुमेवं वक्ष्यमाणप्रकारेण अभाषिष्ट कथितवानपि // 87-88 // युग्मम् // एवमिति किमित्याह-आह्वानेति आह्वानहेतोर्भवतः कुमार !, श्रीभैरवाचार्यगुरुगरीयान् / मां चेह शिष्यं प्रजिघाय विज्ञं, न वेद हेतुं पुनरत्र कश्चित् // 89 // कुमार ! गरीयान् महत्तमो गुरुः श्रीभैरवाचार्यः भवतस्तवाऽऽह्वानहेतोः आह्वानार्थम् विज्ञं शिष्यं मामिह प्रजिघाय प्रेषयामास च, अत्र भवदाह्वाने पुन: कञ्चिद् हेतुं न वेद जानामिअहमिति शेषः // 89 // अथ तत्कृतोत्तरमाह-तति तत्रागमिष्यामि मुने ! प्रभात, इतीरयित्वा विससर्ज तं सः।। अत्रान्तरे कालनिवेदनोत्को, बन्दी पपाठेदमपापशापः // 90 //