________________ मा० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 157 वर्णितानि श्रुत्वा सोत्कण्ठचित्ता सोत्सुका सा कनकवती कुमारस्य गुणवर्मकुमारस्य कण्ठे वरमालिकां निचिक्षेप मुक्तवती // 8 // अथ विवाहोत्सवमाह-ईशानेति-- ईशानचन्द्रो महता महेन, लग्ने प्रशस्ते गुणवर्मणा ताम् / / विवाह्य वाहादि वितीर्य सारं, कृतार्थयामास नृपो द्विधा स्वम् // 81 // नृपः ईशानचन्द्रः प्रशस्ते शुभे लग्ने मुहूर्ते महता महेनोत्सवेन तां कनकवतीं गुणवर्मणा सह विवाह्य सारमुत्तमं वाहादि हयादि वितीर्य यौतुके दत्त्वा स्वमात्मानं द्विधा वचसा कर्मणा च कृतार्थयामास कृतः सिद्धोऽर्थः प्रयोजनं यस्य तादृशं चकारेत्यर्थः न केवलं वचसा कृतार्थः किन्तु कर्मणाऽपीति भावः // 81 // अथ तस्य स्वपुरगमनमाह मन इति-- मनोरथान् मार्गणमानसानां, वाञ्छाऽतिरिक्तैर्द्रविणप्रदानैः / संपूर्य स क्ष्मापतिना विसृष्टो, वध्वा समं स्वं नगरं जगाम // 82 // क्ष्मापतिना ईशानचन्द्रेण विसृष्टः स्वपुरगमनार्थमनुमतः स गुणवर्मकुमारः वध्वा प्रियया कनकवत्या समम् मार्गणानां याचकानां मानसानाम् मनोरथान् अभिलाषान् वाञ्छया इच्छयाsतिरिक्तैरधिकैः द्रविणानां धनानां प्रदानैः कृत्वा संपूर्य स्वं नगरं जगाम // 83 // __ अथ स्वावासगमनमाह-राक्षेति - राज्ञा महेच्छेन महोत्सवेन, प्रवेशिता पत्तनमात्मजेन / समं वधूः सा श्वशुरेण हर्षात्, सौधे प्रदत्ते स्थितिमाततान // 83 // - महेच्छेन महाशयेन-“महेच्छस्तु महाशय” इत्यमरः / राज्ञा दृढवर्मणा श्वशुरेण महोत्सवेना मजेन पुत्रेण गुणवर्मणा समं पत्तनं नगरं प्रवेशिता सा कनकवत्याख्या वधूः प्रदत्ते श्वशुरेणार्पिते सौधे हर्षात् स्थितिमाततानाध्युवास // 83 // अथ तयोविलासमाह-कदेति कदाचिदस्या भवन समेतः,सखीसमाजेन समाश्रितायाः। प्रहेलिकाभिः सुचिरं स रेमे, प्रश्नोत्तरैश्चापि नरेन्द्रसूनुः / / 84 // कदाचित् सखीसमाजेन सखीगणेन समाश्रितायाः सेविताया अस्याः कनकवत्याः भवनं समेत आगतः स नरेन्द्रसूनुः गुणवर्मा प्रहेलिकाभिः प्रश्नोत्तरैश्चापि सुचिरं रेमे // 8 // , अथ द्वारपालनिवेदनमाह-सौधमिति. सौधं पुनः स्वं समुपागतोऽयं, भुजिक्रियापूर्वविलेपनं च / / कृत्वा सभां संपतिपद्य तिष्ठन् दौवारिकेणैवमवादि नन्त्रा // 85 //