________________ 156 श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः / सकलाः महीपतीनां कुमाराः राजपुत्राः शृङ्गारस्य वेषरचनायाः संसर्गेण कृत्वा मनोज्ञरूपाः सन्तः पञ्चेषु काममवजेतुं पराजेतुमिव नु कैलासः तदाख्यः पर्वतः तद्वत्समुन्नतेषु उच्चेषु तस्थुरुपविविशुः // 76 // अथ अत्र गुणवर्मकुमारोपवेशनमाह-उदारेति उदारशृङ्गारविभासमानो, विभाऽसमानः स पुनः कुमारः। अध्यास्य सिंहासनमात्ममञ्चे, पूर्वाद्रिशृङ्गे स्थितवानिवेन्दुः // 77 // पुनः विभया कान्त्या असमानः अनुपमः उदारेण महता शृङ्गारेण स्ववेषरचनया विभासमानः शोभमानः स गुणवर्माख्यः कुमारः आत्ममञ्चे कल्पितस्वमञ्चे पूर्वाद्रे रुदयाद्रेः शृङ्गे शिखरे इन्दुश्चन्द्र इव सिंहासनमध्यास्याश्रित्य स्थितवानुपविवेश // 77 // अथ नृपसुताकृतकुमारावलोकनमाह-भूमीति-- भूमीन्द्रकन्याऽप्यथ याप्ययाना-रूढा प्ररूढाऽऽत्मभवाङ्कुरा सा / / वृता सखीभिः सरसानपश्यद्, राज्ञां कुमारान् शुचिरूपसारान् // 78 // अथ कुमारोपवेशनानन्तरम्, प्ररूढः उत्पन्न आत्मभवस्य कामस्य-“रतिपतिमकरध्वज आत्मभूः” इत्यमरः / अङ्कुरः उन्मेषो यस्याः सा तादृशी उबुद्धकामा याप्यं नरवाह्यं यानं शिबिकादि तत्रारूढा “शिबिका याप्ययानं" इत्यमरः सखीभिः वृता सा, भूमीन्द्रकन्या कनकवत्यपि शुचि पवित्रं रूपं सारश्च येषां तान् तादृशान् सरसान् रागवतः राज्ञां कुमारानपश्यत् // 78 // अथ कनकवत्याः तत्र कुमाराणामग्रतो भ्रमणमाह-तदिति-- तद्गोत्रनामानि विवर्णितानि, चित्रं प्रतीहारिकयैकयैव / आकर्ण्य सा सुष्ठ्वपकर्ण्य बाला, पार्श्व कुमारस्य समाजगाम // 79 // एकया कयाचित्प्रतीहारिकया वेत्रधारिण्या एव चित्रमनेकप्रकारेण विवर्णितानि कथितानि तेषां कुमाराणां गोत्राणि अन्वयान् नामानि च सुष्टु आकण्य अपकर्ण्य अश्रुतमिव कृत्वेत्यर्थः / सा बाला कनकवती कुमारस्य गुणवर्मकुमारस्य पार्श्व समाजगाम // 79 // अथ गुणवर्मकुमारस्य वरणमाह-चित्रेति-- चित्रावदातानि पुरातनानां, पुरावदेतस्य च शंसितानि / श्रुत्वा निचिक्षेप कुमारकण्ठे, सोत्कण्ठचित्ता वरमालिकां सा // 80 // पुरावत् पूर्वकुमारवदेतस्य गुणवर्मकुमारस्य च पुरातनानाम् पूर्वपुरुषकृतानां स्वयं वा पुराकृतानां मध्ये चित्राणि नैकविधानि आश्चर्यकराणि चावदातानि कीर्तिजनककर्माणि शंसितानि