________________ 155 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् देव ! राजन् ! राजाङ्गजा राजपुत्री कनवती द्विधा नाम्नाऽर्थेण च रसं जानाति इति तया जिह्वया च मया द्वारा भवन्तमेवं वक्ति प्रथमावलोकनकाल एवमिति किमित्याह-रक्षक! प्रथमे क्षणेऽपि क्षणे एव पुरा प्राक् मम चित्तमेव रत्नं हत्या, मम चित्तस्य रत्नं ध्येयत्वेन रत्नमिव यातोऽसि, अहं त्वदासक्ता सततं त्वामेव ध्यायामीत्यर्थः // 72 // . अपरं वक्तव्यमाह-नियेति नियन्त्रयिष्यामि ततो भवन्तं, शक्ता स्वयं यो वरणस्रजैव / परं न यावत परिपूर्यते सा, प्राज्ञ ! प्रतिज्ञा मम काऽपि चात्र // 73 // ततश्चित्तरत्नहरणाद्धेतोः शक्ता सामर्थ्यवत्यहं स्वयं श्वः आगामिनि दिने भवन्तं वरणम्रजा स्वयंवरमालया एव नियन्त्रयिष्यामि चौरस्य हि बन्धनमुचितमेवेति भावः / त्वामेव वरयितास्मीति यावत् प्राज्ञ ? धीमन् ! प किन्तु अत्र मम काऽपि प्रतिज्ञा सा यावन्न परिपूर्यते, अस्य तावदित्यग्रिमश्लोकेनान्वयः // 73 // यावदिति किमित्याह-तावदिति तावद् न किञ्चिद्भवताऽपि वाच्या, वाच्योज्झता भोगसमर्थनार्थम् / तथेति तेन प्रतिपादिता सा, स्वस्थानमायातवती विमाया // 74 // तावद्भवताऽपि भोगसमर्थनार्थं भोगार्थम् न वाच्येन कथनीयेन उज्झिता त्यक्ता सुरतायुपभोगार्थमप्रेरणीयाऽहं न किंचिद्वाच्या निदेश्या, तथास्त्विति तेन गुणवर्मकुमारेण प्रतिपदिता कृतोत्तरा विमाया निष्कपटा वृद्धा स्वस्थानमायातवती / / 74 // अथ सूर्योदयमाह-ईशानेति ईशानचन्द्रक्षितिचन्द्रकन्या, वरिष्यते पुण्यनिधि कमद्य ? / इति स्वयं द्रष्टुमिवोदयादि-शृङ्गं दिनेशोऽथ बभाज तुङ्गम् // 75 / / अथ अब ईशानचन्द्रस्य तदाख्यस्य क्षितौ चन्द्र इव तस्य कन्या कनकवती कं पुण्यनिधिंपुण्यवन्तं पुरुषं वरिष्यते, तया वरिष्यमाणः कोऽपि पुण्यवानेव भवितुमर्हति, अकृतपुण्यस्य तादृशकन्याप्राप्त्यसम्भवादिति भावः / इतीदं स्वयं द्रष्टुमिव दिनेशः सूर्यः तुङ्गमत्युच्चमुदयाद्रेः शृङ्गं बभाज प्राप, उदितवानित्यर्थः // 75 / / महीपतीनां सकलाः कुमाराः, शृङ्गारसंसर्गमनोज्ञरूपाः / मञ्चेषु कैलाससमुन्नतेषु, तस्थुर्नु पञ्चेषुमिवावजेतुम् ? // 76 / /