________________ 154 Nornmmmmmmmmmxvvvvvvwww. श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः / अथ वृद्धायास्तद्रोचनमाह-आदायेति-- आदाय तां चित्रितपट्टिकां सा-ऽप्येषा जरत्स्त्री नृपनन्दनाय / __ ताम्बूलपुष्पादिविचित्रवस्तु, व्यश्राणयत् तत्प्रहितं च तस्मै // 8 // एषा सा पूर्वोक्ता जरत्स्त्री वृद्धा अपि तां कुमारदत्तां चित्रितपट्टिकाम् आदाय तस्मै नृपनन्दनाय गुणवर्मकुमाराय तया कनकवल्या प्रहितं प्रेषितं ताम्बूलपुष्पादिरूपं विचित्रं नानाविधं वस्तु व्यश्राणयद् दत्तवती // 68 // स्वयमिति स्वयं समादाय नृपाङ्गजोऽपि, प्राणप्रियाप्रेषितमित्यतस्तद / कृतार्थयामास कृती समस्तं, निजाङ्गसङ्गेन सरागचित्तः // 69 // कृती सिद्धार्थत्वात्कृतार्थः सरागचित्तः नृपाङ्गजः गुणवर्मकुमारोऽपि प्राणप्रियया प्रेषितमि- ' त्यतः तद् वृद्धयार्पितं ताम्बूलादि समस्तं सर्वमेव स्वयमेव समादाय निजाङ्गसङ्गेन स्वाङ्गेनोपभोगेन कृत्वा कृतार्थयामास तत्साफल्यमकरोत् // 69 // अथ कुमारकृतोपहारमाह-तस्या इति-- तस्यै कुमारोऽपि ददौ स्वहारं, तच्चित्तवृत्तेः परितोषहेतोः। सा स्पष्टमाचष्ट रहस्तवैव, कन्यावचः किश्चन कथ्यमस्ति // 70 // कुमारः गुणवर्मकुमारोऽपि तस्यै वृद्धायै तस्याः कनकवत्याः चित्तवृत्तेः परितोषहेतोः प्रसादनाय स्वस्य हारं ददौ, सा वृद्धा स्पष्टमाचष्ट कथितवती, किमित्याह रह एकान्ते तव एव नान्यस्य किञ्चन कन्यायाः कनकवत्याः वचः कथ्यम् कथनीयमस्ति // 7 // अथ तस्या रहाकथनोपक्रममेवाह-स्वरूपेति-- स्वरूपमारेण कुमारकेण, भ्रूसंज्ञयोत्थापित एव लोके / . व्यजिज्ञपत् सा जरती समस्तं, संदिष्टमिष्टाय तया निविष्टा // 71 // स्वरूपेण मारः काम इव तेन कुमारकेण गुणवर्मकुमारेण भुवः संज्ञया सङ्केतेन लोकेउत्थापिते ततोऽन्यत्र गमिते सत्येव सा निविष्टा निपुणा उपविष्टा जरतो वृद्धा तया कनकवत्या इष्टाय प्रियाय संदिष्टं वाचिकं समस्तं साकल्येन व्यजिज्ञपत् // 71 // तत्सन्दिष्टमेवाह-रसेति रसज्ञया देव! मया द्विधाऽपि, राजाङ्गजा वक्ति भवन्तमेवम् / हत्वा पुरा रक्षक ! चित्तरत्नं, ममाऽसि यातः प्रथमे क्षणेऽपि // 72 //