________________ 153 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् ____ 153 .अथ पट्टिकां विशिनष्टि विचित्रेति विचित्रवर्णस्थितिराजमानां, पुरीमिवैक्षिष्ट स तत्र हंसीम् / अत्युज्ज्वलश्लोकविगाढदिक्क, एकं पुनः श्लोकमधश्च तस्याः // 64 // अतिशयेनोज्ज्वलेन श्लोकेन यशसा 'पद्ये यशसि च श्लोक' इत्यमरः / विगाढा व्याप्ता दिशो येन स तादृशः दिगन्तव्याप्तकीर्तिः स गुणवर्मा कुमारः तत्र पट्टिकायाम् विचित्राणां विलक्षणानां नानाविधानां च वर्णानाम् अक्षराणाम् ब्राह्मणादिवर्णानाञ्च स्थितिभिरवस्थानैः कृत्वा पुरीनगरीमिव हंसीम् ऐक्षिष्ट, तस्याः चित्रहंस्याः अधो नीचैश्च पुनः एकं श्लोकं पद्यम् ऐक्षिष्ट // 64 // अहो ? इति अहो ! पियालोकनकाल एव, जाताधिरागा कलहंसिकेयम् / खिन्नाऽपि तस्यानवलोकनेन, समीहते दर्शनमेव भूयः // 65 // अहो ! इति-सहर्षाश्चर्ये, प्रियस्य आलोकनकाले एव जातोऽधिको रागः प्रेमा यस्याः सा तादृशी अत्यनुरक्ता इयं कलहंसिका हंसी तस्य प्रियस्यानवलोकनेनादर्शनेन कृत्वा खिन्ना दूनाऽपि भूय एव दर्शनं प्रियस्य दर्शनं समीहते, अहं त्वां दिदृक्षामीत्यन्योक्त्याशयः // 65 // - अथ कुमारस्य प्रत्युत्तरप्रयासमाह-विज्ञायेति-- विज्ञाय विज्ञापनयैव दास्या-स्तस्या अभिप्रायमसौ कुमारः। तद्रूपमालिख्य च राजहंसं, श्लोकं ततस्तादृशमालिलेख // 66 // दास्याः विज्ञापनया राजपुत्रीवृत्तनिविदनेन कृत्वा तस्याः कनकवत्या अभिप्रायं विज्ञायासौ कुमारः गुणवर्मा तद्रूपं हंसीतुल्यं राजहंसमालित्य चित्रयित्वा च ततः तादृशमुक्तानुरूप श्लोकमालिलेख // 66 // कोऽसौ श्लोक इत्याह-प्रवृद्ध इति प्रवृद्धरागपचयं प्रियाया, हंसोऽप्यसौ तत्क्षणवीक्षणेन / नित्यं प्रियाप्रेक्षणमेव कामं, सुखोपलब्ध्ये परमिच्छतीह // 67 // इह प्रियायाः तत्क्षणं वीक्षणेन कृत्वा प्रवृद्धरागप्रचयम् उत्कटरागवान्-असौ हंसोऽपि नित्यम् कामं यथेष्टं सुखोपलध्यै कामसुखावाप्तये प्रियायाः प्रेक्षणम् दर्शनमेव परं केवलमिच्छति, अहं तद्ागपरलशः त्वामेव कामये इत्यन्योक्तिसारांशः // 67 // शा. 20