________________ श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः / हि यतः अशिक्षितम् अनभ्यस्तम् प्रागन्यस्य कस्यापि मनसोऽनपहरणात् तथापि न केनापि ज्ञातमित्याश्चर्यमिति भावः // 59 // अथ कुमारचिन्तामाह कस्यापीति-- कस्यापि शापेन मुनेः शचीयं, दिवोऽवतीर्णा यदि वोर्वशीयम् ? / इति स्वचित्ते दधदूहमेष, राजाङ्गजोऽपि प्रविवेश सौधम् // 60 // इयं दृश्यमाना राजकन्या शची इन्द्राणी यदि वा इयमुर्वशी प्रसिद्धाप्सरोविशेष एव दिवः स्वर्गात् कस्यापि मुनेः शापेन हेतुना अवतीर्णा पृथिव्यामायाता मानुष्यास्ताढगसाधारण्या असम्भवादिति भावः, इतीत्थमूहं विचारं स्वचित्ते दधदेव राजाङ्गजः गुणवर्मकुमारोऽपि सौधं स्वप्रासादं प्रविवेश // 6 // अथ कुमारस्य कामव्यथामाह . पन्चेषुणा पञ्चभिरेव बाणैः, प्रक्षोभमाणानि निजेन्द्रियाणि / . पश्चाऽपि रक्षन् दृढवर्मसूनु-स्तस्या स्मरन्नेव दिनान् निनाय // 61 // पञ्चेषुणा कामेन पञ्चभिस्तत्सङ्खयकैः सकलैरेव बाणैः कृत्वा, एतेन कामोत्कटतोक्ता / प्रक्षोभमाणानि पीड्यमानानि पञ्चापि निजेन्द्रियाणि रक्षन् अनुपालयन् स्वस्थानि स्थापयन् तस्याः कनकवत्याः स्मरन् एव दृढवर्मसूनुः गुणवर्मकुमारः दिनान् निनाय // 61 // अथ कनकवतीप्रवृत्तिमाह याते इति यातेऽथ यामे प्रथमे रजन्या, वृद्धस्त्रियं स्वीयभुजिष्ययाऽमा / . प्रस्थापयामास तदन्तिके सा, रागं दधाना हृदयेऽसमानम् // 12 // अथ पक्षान्तरे रजन्या रात्रेः प्रथमे यामे प्रहरे याते व्यतीते सति हृदये असमानम् अत्युकटं रागं गुणवर्मविषयप्रेम दधाना सा कनकवती वृद्धां काश्चिस्त्रियं स्वीयया भुजिण्यया दास्या अमा सह तस्य गुणवर्मकुमारस्यान्तिकं समीपं प्रस्थापयामास प्रेषयामास // 62 // अथ तस्या वृद्धायाः प्रवृत्तिमाह निवेदितेति निवेदिता वेत्रीविशेषकेण, कुमारसामीप्यमवाप्य साऽपि / उपायनं तस्य करे चकार, चित्राऽऽस्पदं चित्रितपट्टिकाङ्कम् // 63 // सा वृद्धाऽपि वेत्रिषु द्वारपालेषु विशेषकस्तिलक इव-"तमालपत्रतिलकचित्रकाणि विशेषक' इत्यमरः / तेन निवेदिता ज्ञापिता सती कुमारस्य गुणवर्मकुमारस्य सामीप्यमवाप्य चित्रास्पदमाश्चर्यकारकम् चित्रिता पट्टिका अङ्कश्चिद्रं यस्य तं तादृशमुपायनं तस्य गुणवर्मकुमारस्य करे चकार ददौ // 63 //