________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / प्रयोजनम् स्वर्गदुर्लभस्याप्यत्रैव लाभादिति भावः / तथा आत्मा च किम्फलार्थमेवायास्यते प्रयास प्राप्यते, प्राप्यस्यात्रानायासेनैव प्राप्तेरिति भावः / मोऽप्ययं नेति भावः // 55 // ननु तर्हि कुतोऽस्य सम्भव इति चेत्तत्राह घुणेति घुणाक्षरन्यायवशादवश्यं, ससर्ज धाताऽपि नृरत्नमोहक / अन्यत्र चेदृक्षमवेक्ष्यते न, यद्रूपमाकर्ण्यत एव नैव // 56 // धाता-सृष्टिकर्ता ब्रह्माऽपि अवश्यमसंशयं ईदृग् नृरत्नम् घुणाक्षरन्यायवशात्ससर्ज रचयामास, न तु बुद्धिपूर्वकम्, तत्र हेतुमाह यद्यतः अन्यत्र ईदृक्ष पुरुषं न चावेक्ष्यते रूपमेव चेदृशंनैवाकर्ण्यते, बुद्धिपूर्वकसर्जने हि ईदृशोऽन्यो भवितुमर्हति नान्यथेति भावः // 56 // अथ तस्मिन् स्वभावं ध्यायति-परीति-- परिश्रमः स्यात् सफलो विधातु-स्तदा जगन्निर्मितिनिर्मितोऽयम् / संयोक्ष्यतेऽनेन समं यदा मा-मनन्यसामान्यकलाङ्गकेन // 57 // विधातुः स्रष्टुः जगतः लोकस्य निर्मिती निर्माणे निर्मितः कृतोऽयं दृश्यमानकुमारनिर्माणरूपः परिश्रमः तदा सफलः स्याद्यदा अनन्यसामान्यकलानि असाधारणमधुराणि अङ्गकानि यस्य तेन--"मधुरः कलः” इति हैमः / अनेन दृश्यमानेन कुमारेण समं मां कनकवती संयोक्ष्यते विवाहसम्बन्धेन योजयिष्यति, अन्यथा त्वेतस्य मादृशप्रियाप्राप्त्यभावे अनुरूपयोगाभावादपूर्णतैवेति भङ्गया स्वस्य तदनुरूपवत्त्वं ध्वन्यते इति बोध्यम् // 57 // अथ तस्या निश्चयमाह-पतमिति एतं परित्यज्य कदाचिदन्यं, भर्तारमार्ताऽपि न संश्रयिष्ये / इति स्वचित्तेन विचिन्तयन्ती, प्रसह्य साऽऽलीभिरनायि सौधम् // 58 // आर्ता-पीडिताऽपि बलात्कारेणापीति यावत् / एतं दृश्यमानं गुणवर्मकुभारं परित्यज्य अन्यं भर्तारं कदाचित्कदापि न संश्रयिष्ये वरिष्ये इतीत्थं स्वचित्तेन विचिन्तयन्ती सा कनकवती आलीभिः सखीभिः प्रसह्य हठात् कुमारासक्ततया स्वयमगमनादिति भावः // सौधं स्वप्रासादमनायि प्रापिता // 58 // तस्यां कुमारभावमपि भङ्गया वर्णयति-सेति सा राजकन्याऽपि नरेन्द्रसूनो-हृत्वाऽप्यहो! मानसराजहंसम् / नालक्षि केनाऽपि गृहं वजन्ती, ह्यशिक्षितं कौशलमेतदस्याः // 59 // सा राजकन्या कनकनवत्यपि नरेन्द्रसूनोः गुणवर्मकुमारस्य मानसराजहंसं मनोरूपं हंसं हत्वा चोरयित्वा गृहं वजन्ती गच्छन्ती केनाऽपि न अलक्षि तर्कितम्, अहो ! आश्चर्यमेतत् गूढमनोभावतया न केनाऽपि ज्ञातमिति भावः / अस्या कनकवत्याः एतत्कौशलं कुमारमनोहरणरूपं पाटवं