________________ 150 श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः / सा कनकवती परितः सखीभिः इन्दुलेखा चन्द्रलेखा ताराभिः शुद्धाभिः ताराभिः तारकाभिरिव विभ्राजमाना स्वभासा स्वकान्त्या ककुभः दिशः विद्योतयन्ती प्रकाशयन्ती सती तं जनाश्रयं मण्डपं विलोकयामास // उपमालङ्कारः // 51 // ईशानेति___इशानचन्द्रक्षितिपालकन्या, मान्या स्वरूपेण रतेरपीयम् / निध्याय तं तत्र नरेन्द्रपुत्रं, स्मरेषुविद्धव चिराय दथ्यो // 52 // स्वरूपेण सौन्दर्येण हेतुना रतेः कामप्रियायाः अतिसुन्दर्या अपि ततोऽप्यधिकसुरूपत्वादेतोः मान्या पूज्या इयमिशानचन्द्रस्य क्षितिपालस्य कन्या कनकवती तत्र जनाश्रये तं नरेन्द्रपुत्रं गुणवर्मकुमारं निध्यायावलोक्य स्मरेषुभिः कामबाणैः विद्वा इव चिराय दध्यौ विचारयामास // 52 // किं विचारयामासेत्याह महेशेति-- महेशजन्मा किमयं कुमारः, स्वामी महासेनतया श्रुतो यत् ! / श्रीनन्दनोऽयं किमु कामरूपो, नासत्यबन्धुः किमु वा तृतीयः // 53 // अयं दृश्यमानः कुमारः महेशजजन्मा शिवपुत्रः किमिति वितर्के अयं शिवपुत्रः महासेनतया स्वामी सेनानी श्रुतः ख्यातः तत्तुल्यलक्षणत्वादिति भावः, अथवा, कामरूपः कामदेवस्वरूपः अयं श्रीनन्दनः लक्ष्मीपुत्रः प्रद्युम्नः किम् ? वा अथवा तृतीयः नासत्यबन्धुः दसभ्राता किमु ? नासत्ययोदित्वादिति भावः अत्र सन्देहालङ्कारः-तल्लक्षणं यथा-“सन्देहः प्रकृतेऽन्यस्य संशयः प्रथमोस्थित" इति // 53 // अथ तस्यासाधारण्यमाह एतादृशीति एतादृशी मूर्तिरसाम्यरूपा, सुरेषु चेद् स्याद् यदि वाऽसुरेषु / महाकवीनामपि वर्णनायां, श्रूयेत द्रव्यार्थविवर्णकानाम् // 54 // दृश्यमानप्रकारा मूर्तिः स्वरूपमसाम्यरूपाऽनुपमा, सुरेषु असुरेषु वा यदि चेत्स्यादेतादृशीमूर्तिः, तर्हि द्रव्यार्थानाम् द्रव्यगुणादीनां विवर्णकानाम् वर्णनप्रवृत्तानाम् महाकवीनां वर्णनायां श्रूयेत न च श्रूयतेऽतो नास्तीति भावः / अत्र व्यतिरेकेण साध्यसाधनात्कुमारस्य सुरासुरवैलक्षण्यं ध्वन्यते // 54 // मर्येष्वपि नेत्याह मयेष्विति मर्येषु चेदेष विशेषवेदी, कश्चिद् विपश्चित्तमशंसनीयः। स्वर्गेण तत् किं करणीयमस्ति, किमर्थमायास्यन एव चात्मा ? // 55 // विपश्चित्तमेन पण्डितप्रवरेण शंसनीयः कीर्तनीयः विशेषवेदी विज्ञः एष कश्चिदनिर्दिष्टनामा दृग्गोचरः मत्र्येषु चेत्स्यात् , तहिं, तत्ततो हेतोः स्वर्गेण कृत्वा किं करणीयमस्ति ? न किमपि