________________ 149 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अथ तत्र तस्यातिथ्यमाह ईशानेति ईशानचन्द्रेण महीभुजा स, प्रत्युद्गतः सङ्गतवत्सलेन / गन्धर्ववैतालिककल्पवृक्षः, प्रदत्तसौधे दिवसान् निनाय // 47 // संगतेन यथोचितेन वत्सलेन स्निग्धेन 'स्निग्धस्तु वत्सले' इत्यमरः / ईशानचन्द्रेण महीभुजा प्रत्युद्गतः, अग्रे आगत्य कृतातिथ्यः गन्धर्वाणां वैतालिकानाञ्चाभीष्टप्रदत्वात्कल्पवृक्षः तत्तुल्यः स गुणवर्मकुमारः प्रदत्तसोधे वासातिप्रासादे दिवसान् निनाय व्यतिक्रान्तवान् // 47 // अथ तस्य स्वयंवरमण्डपगमनमाह कुतूहलेति कुतूहलालम्बिमना कुमार-स्तमन्यदा पाप जनाश्रयं सः / आदातुमभ्युत्सुकतां वितन्वन् विलोचनानां फलमात्मनैव // 48 // कुतूहलस्य स्वयंवरमण्डपादिदर्शनकौतुकस्यालम्बि मनो यस्य स तादृशः उत्सुकः स गुणवर्मा अन्यदैकदा अभ्युत्सुकतां कौतुकदर्शनोत्कण्ठाम् वितन्वन् कुर्वन् विलोचनानां नेत्राणां फलं कौतुकदर्शनादिरूपमात्मना स्वयमेवादातुं ग्रहीतुम् तं जनाश्रयं स्वयम्वरमण्डपं “मण्डपस्तु जनाश्रयः” इति हैम: / प्राप // 48 // अनेकेति-- अनेकमूर्तिः स विचित्ररत्न-स्तम्भेषु संक्रान्तवपुर्वभासे / स्वयंवराडम्बरसुन्दरत्वा-वलोकनायेव नरेन्द्रसूनुः // 49 // .. स नरेन्द्रसूनुः गुणवर्मकुमारः विचित्रेषु विलक्षणेषु नानाविधेषु च रत्नानां स्तम्भेषु संक्रान्तवपुः प्रतिबिम्बितः सन् स्वयंवरस्य आडम्बरस्य समृद्धेः सुन्दरत्वस्य सौन्दर्यस्य च अवलोकनाय अनेकमूर्तिरनेकरूप इव बभासे // उत्प्रेक्षा // 49 // अथ तत्र कनकवत्यागमनमाह रूपेति रूपप्रपञ्चातिविचित्रसार-पाश्चालिकाभिः पविलोकनीयम् / विलोकमानस्य तदा तमस्य, सेशानभूपालसुता समागात् // 50 // तदा रूपप्रपञ्चेन सौन्दर्येण कृत्वा, अतिविचित्रः सारोऽङ्गादितत्त्वं यासां ताभिः पाञ्चालिकाभिः पुत्तलिकाभिः कृत्वा प्रविलोकनीयं दर्शनीयं तं स्वयंवरमण्डपं विलोकमानस्य अस्य गुणवर्मणः सतः सा ईशानभूपालसुता कनकवती समागात्, तत्रेति शेषः / / 50 // सेति सा तारताराभिरिवेन्दुलेखा, विभ्राजमाना परितः सखीभिः / विद्योतयन्ती ककुभः स्वभासा, विलोकयामास जनाश्रयं तम् // 51 //