SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ wowww 148 श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः / तरं तु कल्पवृक्षरूपञ्च, कलयाम्बभूवुः, अभीष्टप्रदत्वादिति भावः / कलावान् सौभाग्यवान् प्रजापालकोऽभीष्टप्रदश्च स इत्यर्थः / इतश्चेति कथान्तरसूचने, अग्रिमश्लोकोऽन्वेति // 42 // पुरे इति पुरे वसन्तोपपदेऽस्ति भूमा-नीशानचन्द्रः प्रविभूततन्द्रः / / विनिर्जितो यस्य यशोभिरीशो, भूत्या वपुः स्वं विशदीकरोति // 43 // इतश्च पक्षान्तरे, वसन्तोपपदे पुरे वसन्तपुरे प्रविभूता तिरस्कृता तन्द्रा येन स तादृशः तेजस्वी, ईशानचन्द्रः तदाख्यः भूमान्नृपोऽस्ति, यस्य ईशानचन्द्रस्य यशोभिः कर्ता स्वधावल्येन कृत्वा विनि र्जितः ईशः शुक्लाङ्गः महादेवः भूत्या भस्मना कृत्वा स्वं वपुः शरीरं विशदीकरोति तद्यशोधावल्य जयायातिशयेन श्वेतं करोतीव कथमन्यथा तस्य भस्माङ्गराग इति भावः // उत्प्रेक्षा // 43 // अथ तत्कन्यकां वर्णयति तदिति तत्कन्यकोत्तप्तसुवर्णवर्णा, विवर्णनीयाऽप्सरसां रुचीभिः। ___यभाम पूर्व कनकं वतीति, वर्णावलीद्योति पदं ततोऽन्त्यम् // 44 // तस्येशानचन्द्रस्य उत्तप्तं शुद्धं यत्सुवर्ण तदिव वर्णो यस्याः सा तादृशी अप्सरसां रुचीभिः कान्तिभिः विवर्णनीयोपमेया अप्सरस्तुल्या कन्यका आसीदिति शेषः / यस्या कन्यकायाः नाम पूर्व पूर्वपदं कनकम् , ततः पूर्वादन्यदन्त्यं पदं वतीत्यक्षरद्वयरूपवर्णावल्या द्योतते शोभते इत्येवं शीलम् , कनकवतीत्येवमित्यर्थः // 44 // अथ तत्स्वयंवरे राजकुमाराणामागमनमाह आकेति आकारिता दतमुखेन राज्ञा, रम्याः कुमाराः स्वपरिच्छदेन / स्वयंवरोद्वाहमहे तदीये, पुरं तदेव त्वरितं समेयुः // 45 // . तदीये कनकवत्याः स्वयंवररूपे उद्वाहस्य विवाहस्य महे उत्सवे राज्ञा ईशानचन्द्रेण का दूतमुखेन दूतद्वारा आकारिता आहूताः रम्याः सौन्दर्यवन्तः कुमाराः नृपपुत्राः स्वपरिच्छदेन स्वपरिजनेन सह तत्पुरं वसन्तपुरं त्वरितमेव समेयुरागताः // 45 // अथ गुणवर्मणस्तत्र गमनमाह कुमेति ___कुमारकः श्रीदृढवर्मराज-निदेशमासाद्य स सद्य एव / स्वयंवरस्थानमवाप दूता-हृतस्तदिद्धं गुणवर्मनामा // 46 // स गुणवर्मनामा कुमारकः दूतेन कृत्वा आहूतः सन् श्रीदृढवर्मराजस्य तदाख्यस्य स्वपितुः निदेशमासाद्य प्राप्य सद्य एव इद्धम् सामग्रीसमग्रं प्रशस्तं तत्स्वयंवरस्थापनमवाप प्राप // 46 //
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy