________________ 147 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अथ तयोः पुत्रं वर्णयति मुखेति मुखपवेशोन्मुखसौम्यकान्ति-मृगेश्वरस्वप्नविबुद्धजन्मा / तयोः कुमारो गुणवर्मनामा, धर्मस्थितिः शर्मकरो जनानाम् // 39 // मुखप्रवेशोन्मुखः मुखं प्रविशन् सौम्यकान्तिः अनेन विशेषणेन स्वप्नस्य शुभत्वं सूचितं मृगेश्वरः सिंहः तस्य स्वप्नेन विबुद्धं ज्ञातं जन्म यस्य स तादृशः यज्जन्मनि माता मुखे प्रविशन्तं सिंहं स्वप्ने ददर्श स इत्यर्थः कान्तिरिति सविभक्तिकपाठस्तु प्रामादिकः अन्यथाऽन्वयासम्भवादिति बोध्यम् / धर्मे स्थितिर्यस्य स तादृशः धर्मिष्ठः जनानां शर्मकरः सुखकारकः गुणवर्मनामा तयोः दृढवर्मशीलशालिन्योः कुमारः पुत्रः, अभूदिति शेषः // 39 // अथ तस्य कलाप्राप्तिमाह विनीतेति विनीतमध्यापकसङ्गमेन, कलास्तमाशिश्रियुरेककालम् / भागीरथीशेवलिनीबलेन, रत्नाकरं नद्य इवातिवेलम् // 40 // कलाः प्रसिद्धाः चतुष्पष्टिप्रकाराः तं विनीतं विनयशीलम् अध्यापकस्य शिक्षकस्य तत्तस्कलाचार्यस्य सङ्गमेन सम्पर्केण कृत्वा नद्यः रत्नाकरम् समुद्रं भागीरथी गङ्गा तस्याः शैवलिन्या महानद्या बलेन सङ्गप्राप्तिरूपयुक्त्या इवातिवेलमत्यर्थम् एककालं युगपदेव आशिश्रियुराश्रितवत्यः / / उपमा // 40 // अथ तस्य यौवनप्राप्तिमाह विलेति विलासिनीचञ्चललोचनालि-रोलम्बसंवासनपद्मरूपम् / शास्त्रेषु शस्त्रेषु च लब्धपारः, क्रमादसौ यौवनमाससाद // 41 // असौ गुणवर्मा क्रमात् , शास्त्रेषु शत्रेषु धनुर्वेदेषु च लब्धपारः पारङ्गतः सन् विलासिनीनां. स्त्रीणां चञ्चला लोचनानामालयः श्रेणय एव रोलम्बा भ्रमरास्तेषां संवासने स्वस्मिन् स्थितिनिमित्तं पद्मरूपं यौवनमाससाद प्राप, भ्रमराणां पद्ममिव आह्वादकं स्त्रीणां तद्यौवनमित्यर्थः // 41 // अथ तस्य कलादि भङ्गया वर्णयति गुरुमिति गुरुं बुधास्तं कलयाम्बभूवु-र्मूगीदृशो मन्मथरूपमेतम् / प्रजा जयन्तप्रतिरूपमाराद्, वनीपकाः कल्पतरं त्वितश्च // 42 // बुधाः पण्डिताः तं गुणवर्मकुमारम् , गुरुं कलाभिः स्वश्रेष्ठत्वाद्रहस्योपदेशकत्वाच्चोपदेष्टारम् , अथ च बृहस्पतिरूपम् , कलयाम्बभूवुः मेनिरेः, तथा-एतं गुणवर्मकुमारम् मृगीदृशः स्त्रियः मन्मथरूपं कामदेवरूपम् कलयाम्बभूवुः तथा प्रजाः आरादपेक्षातः जयन्तस्येन्द्रपुत्रस्य प्रतिरूपम् , कलयाम्बुभूवुः / तथा वनीपकाः याचकाः “याचकस्तु वनीपकः" इति हैमः / कल्प