________________ श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः / अथ विषयेच्छात्यागे दृष्टान्तमाह जह इति जडैकबुद्धया प्रथमाभ्युपेतान, विज्ञाततत्त्वान् मृगतृष्णिकावत् / त्यजन्ति केचिद् गुणवर्मनाम-कुमारवत् तान् विषयाँस्तथा हि // 35 // जडैकबुद्ध्या प्रथमाभ्युपेतान् प्रथमतः स्वीकृतान् ततः मृगतृष्णिकावत् मरुमरीचिका इव विज्ञाततत्त्वान् अवगतान्तःसारान् निःसारानिति भावः तान् विषयान् केचिद् केऽपि सजना गुणवर्मनामकुमारवत् त्यजन्ति जहति , तथाहि इति कथामुपक्रमते // 35 // तथा हीत्यादिना प्रस्तुतमेव कथयति जम्ब्विति-- जम्बूमहाद्वीपगमुख्यवर्षे, पुरोत्तमं शौर्यपुरं समस्ति / धजैहाणामनुमीयते श्री-यस्मिन् पयोजैः सरसामिवाम्भः // 36 // जम्बूनाममहाद्वीपगे मुख्ये वर्षे भरतक्षेत्रे पुरेषु उत्तमं शौर्यपुरं तदाख्यं पुरं समस्ति अस्ति, यस्मिन् शौर्यपुरे गृहाणां ध्वजैः कृत्वा पयोजैः कमलैः कृत्वा सरसां जलाशयानामम्भः जलमिव कमलानामन्यथाऽनुपपत्तेरिति भावः / श्रीः लक्ष्मीरनुमीयते, नहि दरिद्रगृहे ध्वजाः सम्भवन्तीति भावः // उपमाऽलङ्कारः // 36 // अथ तत्रत्यनृपं वर्णयति प्रौढेति मोढप्रतापो दृढवर्मनामा, भूवल्लभस्तत्र बभूव धीमान् / रणाङ्गणे यस्य समीक्ष्य शौर्य, हता विपक्षा सहसा बभूवुः // 37 / / तत्र शौर्यपुरे दृढवर्मनामा धीमान् प्रौढप्रतापोऽतितेजस्वी भूवल्लभः नृपो बभूव रणाङ्गणे यस्य दृढवर्मणः शौर्य पराक्रम समीक्ष्यैव विपक्षाः शत्रवः सहसा सद्य एव हता बभूवुः, एवञ्च प्रहारस्य चर्चाऽवसर एव नास्तीति भावः // 37 // अथ नृपभार्या वर्णयति श्रीति श्रीशीलशालिन्यभिधा तदीया, जाया बभूवान्वयशुद्धनामा / मनोहरं रूपमवेक्ष्य यस्या, मुमोच कान्तं न कदापि लक्ष्मीः // 38 // तदीया दृढवर्मनृपस्य अन्वयेन शुद्ध नाम यस्याः सा तादृशी अन्वर्था, श्रिया शीलेन च शालते शोभते इति सा तादृशी अत एव तदभिधा जाया बभूव, यस्याः श्रीशीलशालिन्याः मनोहरं रूपमवेक्ष्य लक्ष्मीः कान्तं स्वपति विष्णु कदाऽपि न मुमोच, स्वस्यासत्त्वकाले स्वाधिकरूपायां तस्यां विष्णुप्रवृत्तिभयादिति स्वभावतः विष्णुलक्ष्म्योः सहभावः सहेतुकत्वेनोत्प्रेक्षितोऽतिशयोक्तो वा तेन च लक्ष्म्यधिकरूपवत्त्वं शीलशालिन्याः सूचितमिति व्यतिरेको ध्वन्यते / लक्ष्म्यधिकसुन्दरी सेत्यर्थः // 38 //