________________ आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् स सोमोऽपि तत्रापि जन्मनि दुरन्तं तन्मद्यपानव्यसनं खलः दुर्जनः अन्तर्निहितमन्तः स्थितं विकारं दुराशयं वेव, अपमन्त्रः मन्त्रेण साधितः भुजङ्गमः सर्पः क्ष्वेडं विषमिव न तत्याज, मालोपमाऽलङ्कारः // 30 // अथ तस्य दुर्वृत्तमाह श्रीति - श्रीमालिकां नाम स सूरगेह-पतेः सुतां सूररथादिवैताम् / कुकर्मनिर्माणसुकर्मशूरः, शोबोऽन्यदाऽऽलिङ्गथ बलादभुक्त // 31 // अन्यदा कदाचित् कुकर्मणः निर्माण करणे सुकर्मशूरः प्रौढः क्षीबो मत्तः स स्कन्दिलजीवः सोमः शूरस्य तदाख्यस्य गेहपतेः कुटुम्बिनः सूररथाद्देवविमानादिव एतामागताम् सुरीमिव, सुन्दरीम् श्रीमालिकां नाम सुताम् बलाद्बलात्कारादालिङ्गय अभुक्त शीलभङ्गं कृतवान् / / 31 // तहण्डेन मृत्युमाह सेति स मेहनच्छेदनपूर्वमेव, कदर्थयित्वा बहुधा नृपेण / समेषु चाकार्य निवेशितेषु, जनेषु पश्यत्सु विनाश्यते स्म // 32 // स सोमः नृपेण आकार्य समेषु सर्वेषु निवेशितेषु उपविष्टेषु जनेषु पश्यत्सु सत्सु बहुधा अनेकप्रकारैः कदर्थयित्वा पीडयित्वा मेहनस्य मेटूस्य छेदनपूर्वम् विनाश्यते स्म हतः // 32 // अथोपहसहरति भ्रमीति भ्रमिष्यतीत्थं स भवाँश्चिराय, दुरन्तदुःखानुभवं प्रकुर्वन् / तद् मद्यपानव्यसनं पुमांसः ! समुज्यताऽन्यव्यसनापहृत्यै // 33 // .. स स्कन्दिलजीवः इत्थमुक्तप्रकारेण दुरन्तानां दुःखानामनुभवं प्रकुर्वन् चिराय चिरकालं यावत् भवान् भ्रमिष्यति, पुमांसः, हे भव्यजनाः तत्तस्माद्धेतोः अन्यस्य व्यसनस्य दुःखस्य वा अपद्वत्यै विमोचनाय मद्यपानव्यसनं समुज्झत त्यजत, अन्यथा स्कंन्दिलवदेव विविधदुःखं प्राप्स्ययेति भावः // 33 // अथ विषयसेवनं दूषयति चन्द्रेति चन्द्रानन ! श्रीकुरुचन्द्रराज !, विन्दन्ति दुःखं भवचारकेऽस्मिन् / न जन्तवः के विषयाभिधान-प्रमादसेवापरतन्त्रचित्ताः? // 34 // चन्द्रानन ! चन्द्रमुख ! श्रीकुरुचन्द्रराज ! अस्मिन् भवचारके भवभ्रमणे विषयाभिधानस्य विषयाख्यस्य प्रमादस्य सेवायां परतन्त्रमधीनं चित्तं येषां तादृशाः विषयलम्पटाः के जन्तवः दुःखं न विन्दन्ति ? अपि तु सर्वे विन्दन्त्येवेत्यर्थः, तस्माद्विषयेच्छा सर्वथा त्याज्यैवेति भावः // 34 //