________________ श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः / अथ तस्य चौर्यप्रवृत्तिमाह स इतिस मद्यपानव्यसनेन तेन, प्रवर्धमानेन विनीतसारः विवेश कस्याऽपि महेश्वरस्य, निकेतने चौर्यकलासु धैर्यः // 26 // स देवदत्तः तेनोक्तेन मद्यपानव्यसनेन प्रवर्धमानेन सता विनीतसारः अविनीतः तथा चौर्यकलासु चौर्यक्रियायाम् सुधैर्यः निपुणः कस्यापि महेश्वरस्य धनाढयस्य निकेतने गृहे विवेशं प्रवेशं कृतवान् चौर्यार्थमिति शेषः // 26 // अथ तस्य मृत्युमाह आरक्षकेणेति-- आरक्षकेण भ्रमतार्धरात्रे, विनिर्गतो लोप्नकरः स दृष्टः / समग्रलोकस्य सपत्नभूतो, घाताय दत्तो नृपतेनिदेशात् // 2 // अर्धरात्रे भ्रमता रक्षार्थ पुरभ्रमणं कुर्वता आरक्षण समग्रलोकस्य सर्वस्य जनस्य सपनभूतः शत्रुः स देवदत्तः लोप्त्रकरः 'स्तेयं लोप्नं तु तद्धने' इत्यमरोक्तेः लोप्नं चौर्य धनं करे यस्य स तद्धनहस्तः दृष्टः नृपतेः निदेशात् घाताय वधाय दत्तः वधिकेभ्यः समर्पितश्च // 27 // अथ तस्य वृषभभवमाह-दुरिति दुनिभावेन महाककुमान् , भूत्वा ततः पृष्ठवहप्रतिष्ठः / भारं वहँस्तीव्रतृषाक्षुधाभ्यां, कदर्थनाः स प्रचुरा विषेहे // 28 // ततोऽनन्तरं स देवदत्तः दुर्ध्यानभावेन मृत्युकाले कृताशुभध्यानहेतोः महाककुद्मान् महा. वृषभो भूत्वा पृष्ठवहः पृष्ठेन भारवहनमेव प्रतिष्ठा वृत्तिर्यस्य स तादृशः सन् भार वहन् तीवाभ्यामसह्याभ्यां तृषाक्षुधाभ्यां कृत्वा प्रचुराः कदर्थनाः पीडाः विषेहे सोढ़वान् // 28 // अथ तस्य भवान्तरमाह-तत इति ततो बिपन्नो वटकूपनाम्नि, ग्रामेऽभिरामे विततोर्वराभिः। स शेषराजस्य कुटुम्बिनोऽभूद्, नेदाङ्गजः सोम इति प्रतीतः // 29 // ततः वृषभजन्मनि विपन्नः मृतः स स्कन्दिलजीवः वितताभिः विपुलाभिरुवराभिः सर्वसस्यसंपन्नभूमिभिः कृत्वा "उर्वरा सर्वसस्याड्या" इत्यमरः / अभिराम मनोहरे वटकूपनाम्नि ग्रामे कुटुम्बिनः शेषराजस्य तदाख्यस्य नेदाया अङ्गजः पुत्रः सोम इति नाम्ना प्रतीतः ख्यातोऽभूत् // 29 // तत्रापि तस्य तद् व्यसनमाह-तदिति तद् मद्यपानव्यसनं दुरन्तं, तत्राऽपि तत्याज न सोऽपि सोमः / विकारमन्तर्निहितं खलो वा, भुजङ्गमः क्ष्वेडमिवापमन्त्रः // 30 // .