________________ आ० श्रीवियदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् नयेन नीत्या प्रहतः प्रच्युतः निरपराधे प्रहरणादिति भावः / स स्कन्दिलः व्यापादितः वधं प्रापितः // 21 // अथ स्कन्दिलस्य पुनर्भवमाह विपद्य जातो नरके दुरात्मा, दुःखानि भूयांस्यनुभूय कामम् / / ग्रामे स धान्ये तिलकावसाने, श्रीशङ्खदत्तस्य कुटुम्बिमौलेः // 22 // गीर्माधवी माधविकातनूभू-र्वसन्तनामा समभूदपुण्यः / स मद्यपानव्यसनं तदेव, तत्रैव जन्मन्यपि नो मुमोच // 23 // स दुरात्मा दुराश्रयः स्कन्दिलः विपद्य मृत्वा नरके जातः सन् भूयांसि दुःखानि नरकयातनाः काममत्यन्तमनुभूय तिलकेतिशब्दोऽवसानेऽन्ते यस्य तादृशे धान्ये तदाख्ये, धान्यतिलकाख्ये ग्रामे कुटुम्बिमौलेः गृहस्थशिरोमणेः श्रीशङ्खदत्तस्य तदाख्यस्य गिरा वाण्या कृत्वा माधव्याः मधुरगिर इत्यर्थः, तस्या माधविकायाः तदाख्यायाः तनूभूः कुक्षिजन्मा वसन्तनामा समभूत् , सोऽपुण्यः पापी स्कन्दिलः तत्र जन्मनि वसन्ताख्येऽपि तदा पूर्वजन्मनीव मद्यपानव्यसनं नैव मुमोच, 'सती च योषित् प्रकृतिश्च निश्चला, पुमांसमभ्येति भवान्तरेष्वपी" त्युक्तेरिति भावः युग्मम् // 22 // // 23 // तदिति-- तद्ग्रामनाथः पथि चाजिहान-स्तेनान्यदाऽदृश्यत दृश्यमूर्तिः / गालिपदानेन च मद्यपेन, तस्य क्रुदाऽऽधीयत मानभाजः // 24 // ___ दृश्यमूर्तिः दर्शनीयः पथि मार्गे आजिहानो गच्छंश्च तस्य धान्यतिलकारव्यस्य ग्रामस्य नाथः ग्रामणीरित्यर्थः अन्यदा कदाचित्तेन मद्यपेन वसन्तेनादृश्यत दृष्टः / मद्यपेन वसन्तेन च गालिप्रदानेन कृत्वा मानभाजः मानिनीमान्यस्य वा तस्य ग्रामण्यः नाथस्य क्रुद् क्रोधः आधीयत उदपादि // 24 // अथ पुनरपि तस्य भवान्तराण्याह-प्रो इति प्रोज्जासितस्तेन स मङक्षु तिर्यग्-योनिष्वनेकामु चिरं भ्रमित्वा / नृत्वं प्रपन्नः पुनरेव देव-दत्ताभिधस्तद् व्यसनं बभाज // 25 // तेन ग्रामाधिपेन मञ्जु सद्य एव प्रोज्जासितः हतः स वसन्तः अनेकासु तिर्यग्योनिषु चिरं भ्रमित्वा नृत्वं मनुष्यभव प्रपन्नः देवदत्ताभिधः पुनरेव तन्मधपानरूपं व्यसनम् बभाज प्राप्तवान् // 25 //