________________ 142 श्रीशान्तिनाथमहाकाव्यम्-पोडशः सर्गः। ___ तत्तस्माद्रेतोः स पापः सुजनैः स्वपङ्क्तेः दूरीकृतः स्वश्रेणीतः दूरीकृतस्यक्तः कैश्चन नैवोरीकृतः स्वीकृतः / तथापि व्यसने उग्रं हठाग्रहि चित्तं यस्य स तादृशः स स्कन्दिलः किञ्चिद्धनमर्जयित्वा मद्यं पपौ // 17 // अन्येधुरिति अन्येधुरेतस्य दुराशयस्य, निपीतमद्यस्य पथि प्रयातः / भूमिपतिः संमुखमाजगाम, लीलाविहारेण वनं प्रयातः // 18 // अन्येधुरेकदा निपीतमद्यस्य कृतमद्यपानस्य दुराशयस्य दुष्टात्मन एतस्य स्कन्धिलस्य पथि प्रयातः गच्छतः सतः वनं प्रयातः गतः भूमीपतिः नृपः पृथ्वीचन्द्रः लीलाविहारेण विनोदभ्रमणेन कृत्वा सम्मुखमाजगाम / मनोऽनुरञ्जनाय भ्रमन् महीपतिः संयोगात् स्कन्दिलस्याग्रत उपास्थित इत्यर्थः // 18 // भूपालेति-- भूपालमान्यैः पुरुषैः पुरोगः, क्षीबः स इत्येवमवादि भो भोः / अयं समभ्येति विभुस्ततस्त्वं, स्थानादितो द्रागपसृत्य तिष्ठ // 19 // पुरोगः भूपपुरः स्थितः स क्षीबो मत्तः स्कन्दिलः भूपालमान्यैः भूपप्रियैः पुरुषैः भृत्यादिभिरित्येवमवादि, एवमिति किमित्याह-भो भोः ! सम्भ्रमे द्विरुक्तिः, अयं लक्षमाणो विभुर्भूपः समभ्येति सम्मुखमेति ततः हेतोः त्वं स्कन्दिलः इतोऽस्मात्स्थानाद् द्राक् शीघ्रमपसृत्य दूरीभूय तिष्ठ नहि केनापि नृपमार्गरोधिना भवितव्यम् इति शिष्टाचार इति भावः // 19 // नेति नाकर्णयामास यदा नराणां, मत्तोऽपसारप्रवणाः स वाचः / बाहौ तदैकेन धृतो नरेन्द्र-वाल्लभ्यभाजा पुरुषेण रोषात् // 20 // यदा स मत्तः स्कन्दिलः नराणां राजपुरुषाणाम् अपसारणप्रवणाः दूरीभावसूचिकाः वाचः न आकर्णयामास मदेन गतसंज्ञत्वादिति भावः / तदा नरेन्द्रस्य वाल्लभ्यं प्रियत्वं भजतीति तेन तादृशेन नृपप्रियेण एकेन केनचित्पुरुषेण रोषासक्रोधम् बाहौ धृतः // 20 // छुरीमिति छुरी समाकृष्य सितां स तेन, न्यधानि मत्तेन रुषाश्रितेन / वृत्तान्तमेतं विनिशम्य राजा, व्यापादितः स पहतो नयेन // 21 // स राजपुरुषः मत्तेन मदविह्वलेन अत एव रुषाश्रितेन सक्रोधेन तेन स्कन्दिलेन सितां तीक्ष्णां छुरीम् शत्रीं समाकृष्य न्यधानि प्राहारि, राज्ञा एतं छुरीघातरूपं वृत्तान्तं विनिशम्य