________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अथ. स्कन्दिलस्य विवाहमाह मातेति मातापितृभ्यां परिणायितः, स स्कन्दश्रियं नाम वधू वयःस्थः / क्रमात् स पञ्चत्वमवाप चन्द्र-प्रशस्यकीर्तिः किल चन्द्रराजः // 13 // वयःस्थस्तरुणः 'वयःस्थस्तरुणो युवे"त्यमरः / स स्कन्दिलः मातापितृभ्यां स्कन्दश्रियं नाम वधू परिणायितः / क्रमात् कालक्रमतः चन्द्रेण कृत्वा प्रशस्या वर्णनीया कीर्तिर्यस्य स तादृशः स चन्द्रराजः पञ्चत्वं मृत्युमवाप किल // 13 // अथ स्कन्दिलस्य मद्यव्यसनमाह तस्येति-- तस्यान्यदा भाग्यविपर्ययेण, मद्यैकपानव्यसनं बभूव / पुंसः कुकर्मोदयसंविधानात, संजायते यद् व्यसनं दुरन्तम् // 14 // तस्य स्कन्दिलस्य, अन्यदा, भाग्यस्य विपर्ययेण विपरीततया मद्यस्य एकं मुख्यं व्यसनं बभूव, व्यसने भाग्यवैपरीत्यमेव निमित्तमित्याह-यद्यतः पुंसः पुरुषस्य कुकर्मणः पापस्य उदयस्य फलोन्मुखत्वस्य संविधानाद्भावात् कृत्वा दुरन्तं व्यसनं सञ्जायते, व्यसनमात्रस्य दुरन्ततया कुकर्मण एव तत्फलं न तु शुभकर्मण इति भावः // 14 // व्यसनी हितं न शृणोतीत्याह स इति स स्निग्धवाक्यैः प्रियया प्रयत्नाद , निवार्यमाणो विरराम नैव / तस्योग्रमेतद् व्यसनं विबुध्य, जनैरनेकैः सुजनैरिवाऽयम् // 15 // स स्कन्दिलोऽयम् तस्य स्कन्दिलस्य एतदुग्रं दुरन्तं व्यसनं विबुध्य ज्ञात्वा, प्रियया भार्यया सुजनैः अनेकैः जनैरिव जनैश्च निपातानामनेकार्थत्वादिव शब्दोऽत्र चार्थे इति बोध्यम् / स्निग्धैः स्नेहपूर्णैः वाक्यैः कृत्वा प्रयत्नात्सोद्योगं साग्रहं वा निवार्यमाणः मयं मा पिब दुर्व्यसनमिदं * दुरन्तमित्येवं निषेध्यमानोऽपि नैव विरराम मद्यपानाद्विमुखोऽभूत् // 15 // अथ तस्य धनदुर्व्ययमाह अजीगमदिति--- अजीगमत् तद्वयसने प्रसक्तः, सर्वं सुवर्ण स निरङ्कशः सन् / धान्यानि धेनूपि गोकुलानि, कुलामयः स व्ययति स्म पश्चात् // 16 // तस्मिन् * मद्यपानरूपे व्यसने प्रसक्तः संलग्नः निरङ्कुशः स्वतन्त्रः सन् स स्कन्दिलः सर्व सुवर्ण धान्यानि धेनूः गाः गोकुलानि व्रजांश्चाजीगमत् व्ययति स्म, स पश्चात् , कुलामयः कुलसर्वस्वमपि व्ययति स्म // 16 // तस्य व्यसनसाधने दुराग्रहमाह दूरीति दूरीकृतस्तत्सुजनैः स्वपकते-रूरीकृतः कैश्चन नैव पापः / तथाऽपि किश्चिद् धनमर्जयित्वा, मद्यं पपौ स व्यसनोग्रचित्तः // 17 //