________________ श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः / निद्रेत्यर्थः, विकथासु धर्मानुत्तेजककथासु अनुरङ्गः प्रसङ्गः इत्येवम् पञ्चप्रकारः प्रमादः प्रोक्त इत्यर्थः // 8 // तत्र प्रथम मदिरां दूषयति तत्रेति-- तत्राऽपि मुख्यो मदिरोपसेवा, यत्सेवनादर्थपरिक्षयोऽत्र / परत्र दुःखं नरके यथाऽऽपत्, स स्कन्दिलो ना कुलपुत्रवाच्यः // 9 // तत्र तेषु पञ्चविधेषु प्रमादेष्वपि मदिराया उपसेवा सेवनं मुख्यः आद्य प्रमादः प्रधानम् यत्सेवनात् अत्र लोके अर्थस्य धनस्य परिक्षयः नाशः, मद्यपा हि धनं निरर्थकं व्ययन्तीति भावः / तथा कुलपुत्रवाच्यः कुलपुत्रगोत्रः स्कन्दिलः तदाख्यः स प्रसिद्धः ना पुरुषः यथा येन प्रकारेण मदिरासेवनेन कृत्वा परत्र परलोके नरके दुःखमापत् // 9 // कथामेव प्रस्तौति तथाहीति तथाहि याम्ये भरते समृद्धि-प्रथिम्नि पृथ्वीतिलके पुरेऽभूत् / चन्द्रः पृथिव्या इच नाम पृथ्वी-चन्द्रः प्रजाऽऽनन्दकरो नरेन्द्रः // 10 // तथाहीति कथा प्रस्तावे, याम्ये दक्षिणे भरते तदात्यक्षेत्रे समृद्धिभिः प्रथिम्नि विश्रुते विशाले प्रचुरसमृद्धिके पृथ्वीतिलके तदाख्ये पुरे पृथिव्याश्चन्द्र इव पृथ्वीचन्द्रः नाम प्रजायाः आनन्दकरः नरेन्द्रोऽभूत् उत्प्रेक्षा // 10 // अथ तद्भार्या वर्णयति देवीति-- देवी तदीया सुरसुन्दरीति, ख्याता गुणौधैः सुरसुन्दरीव / यदूपमालोकितुमेकचित्तः, सहस्रनेत्रो मघवा बभूव // 11 // तदीया पृथ्वीचन्द्रस्य देवी पट्टराज्ञी सुरसुन्दरी इतीत्थं ख्याता प्रसिद्धा गुणाधैः सुरसुन्दरी सुरस्त्रीव आसीदिति शेषः अत्रातिशयोक्तिमाह-यस्याः सुरसुन्दर्याः रूपं सौन्दर्यमालोकितुं द्रष्टुम् एकचित्तः नितरामुत्कण्ठितः मघवा इन्द्रः सहस्रनेत्रो बभूव द्वाभ्यां नेत्राभ्यां तद्रूपावलोकने तृप्त्यभावादिति तस्या अद्भुतं सौन्दर्य व्यज्यते // 11 // मथ स्कन्दिलमाह तत्रैवेति-- तत्रैव वित्तः कुलपुत्रकोऽस्ति, श्रीचन्द्रराजः श्रितराजमानः / तस्य प्रियाऽजायत चन्द्रकान्ता, तदङ्गजः स्कन्दिलनामधेयः // 12 // तत्र पृथ्वीतिलकपुरे एव वित्तः प्रसिद्धः, तथा श्रितः प्राप्तः राज्ञो मानः सम्मानः येन स तादृशः राजमान्यः श्रीचन्द्रराजः तदाख्यः कुलपुत्रकः अस्ति, तस्य चन्द्रराजस्य प्रिया चन्द्रकान्ता तदाख्या, तस्य च चन्द्रराजस्याङ्गजः पुत्रश्च स्कन्दिलनामधेयः अजायताभूत् // 12 //