________________ marnamamawww आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् __ भूमिभुजाम् राज्ञां पुरोगः प्रथमः कुरुचन्द्रभूपः प्रदक्षिणानां त्रितयं प्रदक्षिणात्रयं विधाय जिनं श्रीशान्तिजिनं गणेश्वरान् गणधरांश्च नमस्कृत्य वन्दित्वा असौ भूपः यथास्थानमलञ्चकाराशिश्रियत्, // 4 // अथ जिनेशदेशनोपक्रममाह नृपे इति नृपे निविष्टे जिनचक्रवर्ती, स देशनां धर्ममयीं ससर्ज / परोपकाराय सतां हि बोधः, सरोवराणामिव वारिपूरः // 5 // नृपे निविष्टे उपविष्टे सति स जिनचक्रवर्ती शान्तिजिनः धर्ममयीं धर्मप्रधानां देशनां ससर्ज चकार ननु किमिति देशनां ससर्जेति चेत्तत्राह-हि यतः सतां बोधो ज्ञानम् सरोवराणां तडागानां वारिपूरः जलप्रवाहश्च परोपकाराय परोपकारार्थम् भवतीति शेषः / धर्मदेशनया कृत्वा कियन्तो बोधं प्राप्स्यन्तीति परोपकारबुद्ध्यैव देशनाप्रवृत्तिरिति भावः // 5 // अथ तद्देशनामेवाह अवाप्येति अवाप्य चिन्तामणिवद् दुरापं, मानुष्यमेतद् भविकाः ! कथञ्चित् / प्रमादमुत्सार्य विचार्य तत्त्वं, धर्म विदद्ध्वं शिवशर्महेतोः // 6 // भविकाः ! चिन्तामणिवत्सकलेष्टसाधकं दुरापं दुर्लभं पुण्यराशिप्राप्यमेतद्वर्तमानं मानुष्यं मनुष्यभवं कथञ्चिन्महता कण्टेनावाप्य प्रमादं धर्मकार्येष्वालस्यमुत्सार्य त्यक्त्वा तच्च पारमार्थिकतत्त्वं विचार्य शिवशर्म हेतोः मोक्षसुखाय धर्म विदद्ध्वम् कुरुध्वम्, धर्मेण हि मुक्तिराप्यते इति भावः // 6 // प्रमादं निन्दति नेति न द्वेषिहालाहलनाहलानां, भयं प्रकुर्वन्ति बुधास्तथाऽत्र / ___लोकद्वयस्वार्थविनाशकस्य, यथा प्रमादस्य दुरन्तकस्य // 7 // बुधाः अत्र संसारे द्वेषिणां शत्रूणां हालाहलस्य विषस्य नाहलानां भिल्लानां 'पुलिन्दा नाहला' इतिहैमः / भयं मरणादिप्रदत्त्वात्ततो भीति तथा तेन रूपेण नः प्रकुर्वन्ति यथा येन रूपेण लोकद्वयस्येहलोकपरलोकयोः स्वार्थस्य हितस्य विनाशकस्य, अत एव, दुरन्तकस्य दुष्परिणामस्य प्रमादस्य / प्रमादो लोकद्वयहन्तेति द्वेषिप्रभृतिभ्य इहानिष्टेभ्यो विशिष्यत इत्यर्थः // 7 // अथ प्रमादं विभजति मैरेयेति मैरेयपाणं विषयातिसक्तिः, कपाययोगः शयनाभिषङ्गः / पुण्यद्रुभङ्गो विकथाऽनुरङ्गः, प्रोक्तः प्रमादः स च पञ्चधा ज्ञैः // 8 // स पूर्व निन्दितः पुण्यद्रुभङ्गहेतुः, प्रमादश्च तैः बुधैः पञ्चधा पञ्चप्रकारः प्रोक्तः, पञ्चप्रकारानेवाह - मैरेयस्य मदिरायाः पानं “पानस्य भावकरणयो” रिति णः / विषयेषु पञ्चेन्द्रियविषयेषु पंचसु अतिसक्तिः अत्यन्तमासक्तिः, कषायैः क्रोधादिभिः योगः सम्बन्धः, शयने अभिषङ्ग अत्यादरः