SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ अर्हम् अथ षोडशः सर्गः सर्गादौ मङ्गलमाचरति प्रतीयते इतिप्रतीयते यत्पुरुषोत्तमत्वं, संवेदनेनैव सनातनेन / अनन्यसामान्यभृता श्रिया च, स शान्तिनाथस्तनुतां मुदं वः॥१॥ यस्य श्रीशान्तिनाथस्य पुरुषोत्तमत्त्वम् सनातनेन नित्येनैव संवेदनेन ज्ञानेन केवलज्ञानेन / अनन्यसामान्यमसाधारणत्वं बिभर्तीति तया अनुपमया श्रिया च प्रतीयते ज्ञायते, नहि पुरुषसामान्यः केवली निरुपमश्रीको वा भवितुमर्हतीति भावः / स पुरुषोत्तमः शान्तिनाथः वः श्रोतृणां मुदं तनुतां विस्तारयतु अत्र सर्गे प्रायः उपजातिच्छन्दः // 1 // कथां प्रस्तौति अथेति अथान्यदा हास्तिननामधेयं, पुरं जिनेशः समवासरत् सः / जगत् पवित्रं रचयन् स्वपादै-दिनेशवत् तामसभूतिभेत्ता // 2 // अथ स जिनेशः श्रीशान्तिजिनः स्वस्य पादैः चरणन्यासैः, किरणैश्च दिनेशवत्सूर्यवत् तामसभूतेः अज्ञानसम्पदः, तमःपुञ्जस्य च भेत्ता नाशकः, जगत् पवित्रं रचयन् हास्तिननामधेयं पुरं हास्तिनापुरं समवासरत् समवसृतवान् // 2 // अथ राक्षस्तत्रागमनमाह आयुक्तेति-- आयुक्तपुम्भ्यो जिनसार्वभौम, श्रुत्वा समेतं कुरुचन्द्रभूपः / प्रदाय हर्षात् परितुष्टिदानं, प्रभु प्रणन्तुं सहसा जगाम // 3 // कुरुचन्द्र इत्याख्यो भूपः आयुक्तेभ्यः नियुक्तेभ्यः पुंभ्यः उद्यानपालादिभ्यः जिनसार्वभौम जिनेशं शान्ति समेतं समागतं श्रुत्वा हर्षात्तदागमनश्रवणजन्यहर्षात्परितुष्टिदानं भृत्येभ्यः तद्वृत्तनिवेदकेभ्यः पारितोषिकं प्रदाय सहसा झटित्येव प्रभुं शान्तिजिनं प्रणन्तुं जगाम, एतेन जिनेशे राज्ञो भक्तिरुत्कण्ठातिशयश्च सूचितः नह्यन्यथेदृशी प्रवृत्तिः सम्भवतीति बोध्यम् // 3 // अथ नृपकृतजिनेशप्रदक्षिणादिविधिमाह प्रेति प्रदक्षिणानां त्रितयं विधाय, जिनं नमस्कृत्य गणेश्वरांश्च / असी यथास्थानमलश्चकार, भूमण्डलं भूमिभुजां पुरोगः // 4 // .
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy