________________ wwwwwwwwwwwwVAAAAAAAAAAAAAAwar आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् ___ 137 अर्थ शासनदेवतामाह पाण्योरिति पाण्योदक्षिणयोः सदैव दधती सत्पुस्तकं चोत्पलं, पद्मं चाऽपि कमण्डलुं भगवती वामार्चिता वामयोः। निर्वाणी प्रथिताऽऽख्यया सितवपुः पद्मासनाभासिता, देवी शासनदेवता जिनपतिश्रीशान्तितीर्थेऽजनि // 132 // - जिनपतेः श्रीशान्तेः तीर्थे दक्षिणयोः पाण्योः सदैव सत्पुस्तकमुत्पलं च वामयोः पाण्योः पद्मश्च कमण्डलुमपि दधती वामाभिः नारीभिरचिंता पद्मासने आभासिता शोभमाना सितवपुः श्वेतमूर्तिः भगवती देवी आख्यया नाम्ना निर्वाणीत्येवं प्रथिता ख्याता शासनदेवताऽजनि जाता // 132 // अथशान्तेविहारमाह ताभ्यामिति ताभ्यां नित्यमधिष्ठितो गुरुबुधोपास्यः पणिघ्नस्तमःस्तोमं सोमकलानिधिं रविरिव क्षीणं समुल्लासयन् / पादरेष भुवस्तलं विमलतामापादयन्नन्यतः, श्रीशान्तिर्विजहार भव्यकमलपोद्बोधकल्याणकृत् // 133 // नित्यं ताभ्यां यक्षशासनदेवीभ्यां नित्यमधिष्ठितः सेवितः गुरुभिर्महद्भिर्बुधैः पण्डितैरुपास्यः सेव्यः गुरुबुधदेवोपास्यो वा उपलक्षगया सर्वदेवैरुपास्यः पक्षान्तरे गुरुबुधग्रहोपास्यः' सेव्यः रविरिव सूर्य इव तमःस्तोममज्ञानान्धकारं प्रणिध्नन् नाशयन् क्षीणसोमकलानिधिं समुल्लासयन् वर्धयन् हर्षयन् च भाव्यात्मरूपस्य कमलस्य प्रोद्बोधरूपकल्याणकृत् श्रीशान्तिः भुवस्तलं महीतलं विमलतां पवित्रितामापादयन् अन्यतोऽन्यत्र पादैरेव कृत्वा विजहार // 133 // आसीदिति आसीत् श्रीगुरुगच्छमौलिमुकुटश्रीमानभद्रप्रभोः, पट्टे श्रीगुणभद्रसूरिसुगुरुश्चारित्रभाजां गुरुः। तच्छिष्येण कृतेऽत्र पञ्चदशकः श्रीशान्तिवृत्ते महाकाव्ये श्रीमुनिभद्रसूरिकविना सर्गः सुवृत्तोऽगमत् // 134 // ___नवरम् , निगदसिद्धमेतद्वयाख्यातपूर्वञ्चइति श्रीमन्मुनिभद्रसूरिकृते श्रीशान्तिनाथचरिते शासनसम्राट्-सूरिचक्रचक्रवर्ति-परमसद्गुरु-श्रीमद्विजयनेमिसरीश्वरपट्टालङ्कारावाप्त न्यायवाचस्पति-शास्त्रविशारदविरुदाचार्य श्रीविजयदर्शनसूरीश्वरसन्दृब्धप्रबोधिनी-व्याख्यायां पञ्चदशः सर्गः समाप्तः //