________________ 136 श्रीशान्तिनाथमहाकाव्यम्-पञ्चदशः सर्गः / देवच्छन्दं ततः स प्रभुरलमकरोत् पूर्तिमायातवत्यां, पौरुष्यामादिमायां श्रमपरिमथनं कर्तुमेव क्रमो हि // 129 // अथानन्तरम् वैराग्येन कृत्वा आपूर्ण भूतं चित्तं येषां तादृशाः अतिविरक्ता प्रभूता बहवः मानवाः मानव्यश्च तीर्थाधिनाथात् शान्तिजिनसकाशाद् व्रतं जगृहुः सधर्माः पुण्यवत्यः कतिचन कतिचिन्मानवा मानव्यश्च श्राद्धधर्म विधिवद् जगृहुरिति सम्बध्यते ततोऽनन्तरम्, स प्रभुः शान्तिजिनः आदिमायां प्रथमायां पौरुष्यां पूर्तिमायातवत्यां पूर्णायां सत्याम् देवच्छन्दम् अलमकरोत् शोभितवान् हि यतः श्रमस्य परिमथनं निरासनं कर्तुमेष देवच्छन्दगमनरूपः क्रमः // 129 // अथ गणधरदेशनामाह-तीर्थेति-- तीर्थाधीशामिपीठं प्रथमगणधरोऽऽध्यास्य चक्रायुधोऽपि, व्याचक्रे धर्ममेकं प्रभुरिव भविकक्लेशविध्वंसनाय / / पौरुष्यां यातवत्यां द्विकपरिगणनाविश्रुतायां जनौधाः, सर्वे स्वं स्वं निकेतं ययुरथ सुकृताऽऽकर्णनेन प्रहृष्टाः // 130 // प्रथमगणधरश्चक्रायुधोऽपि तीर्थाधीशस्य शान्तेरंघ्रिपीठं पादपीठं अध्यास्योपविश्य भविकानां क्लेशस्य विध्वंसनायकं अद्वितीयं धर्म व्याचक्रे व्याख्यातवान् / अथानन्तरम्, द्विकपरिगणनाविश्रुतायां द्वितीयायां पौरुष्यां यातवत्यां व्यतीतायां सत्याम् सर्वे जनौघाः सुकृतस्य लक्षणया धर्मकथायाः आकर्णनेन श्रवणेन प्रहृष्टाः सन्तः स्वं स्वं नितं स्थानं ययुः // 130 // अथ शान्तिनाथतीर्थयक्षमाह-पाणिभ्यामिति-- पाणिभ्यां बीजपूरं कमलमपि दधद् दक्षिणाभ्यामुभाभ्यां, वामाभ्यामक्षसूत्रं नकुलमपि तथा पौत्रिवक्त्रेण राजन् / भाद्राम्भोवाहमुर्तिः करिस्थगमनः शान्तिनाथस्य तीर्थे, जज्ञे यक्षः स दक्षो गरुड इति जगत्ख्यातचारुप्रभावः // 131 // शान्तिनाथस्य तीर्थे शासने दक्षिणाभ्यामपसव्याभ्यामुभाभ्यां पाणिभ्याम् बीजपूरं कमलमपि कमलं च, वामाभ्यां पाणिभ्याम् अक्षसूत्रं नकुलमपि नकुलं च दधत् पौत्रिवक्त्रेण शूकरमुखेन राजन् शोभमानः वराहमुखः, तथा, भाद्रस्य तदाख्यमासस्य अम्भोवाह मेघ इव कृष्णमूर्तिर्यस्य स तादृशः कृष्णवर्णः करिरथेन गजरथेन गमनं यस्य स तादृशः दक्षः शीघ्रकर्मा जागर्ति ख्यातः चारुः प्रभावः यस्य स तादशः स प्रसिद्धः गरुड इत्यभिधानः यक्षः जज्ञे जातः // 131 //