________________ 135 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् राजन् ! त्वं मा प्रमादीः प्रमादं कुर्या इतीत्थं भगवता शान्तिजिनेनोदीरितः कथितः स चक्रायुधः सद्म गृहं गत्वा प्रकटितविनयं विनयशालिनं पुत्रं राज्ये निधाय निवेश्य भूरि प्रचुरं भूरि स्वर्णादिधनं --" जाम्बुनदं शातकुम्भं रजतं भूरि” इति हैमः / " प्रदाय हस्त्यारूढः समेत्यागत्य प्रणतगुरुपदः कृतगुरुपदप्रणामः सन् राट् राजा चक्रायुधः प्रोच्चैः तात ! निस्तारय इतीत्थं वाचं प्रोचार्य सुकृते पुण्ये कृतं मनो येन स तादृशः पुण्यबुद्धिः सन् दीक्षामुपादत्त // 136 // अथाऽन्येषामपि नृपाणां दीक्षाग्रहणमाह पञ्चेति पञ्चत्रिंशद तदानीं वचनमिव विभोः सद्गुणा भूमिपाला, राजर्पि दीक्षया तं शिवपदसुहृदोऽनु व्रजन्ति स्म धन्याः तेषां चक्रायुधादिप्रवरगणभृतां शान्तिरुत्पादनाश धौव्यपख्यातरूपं त्रितयमथ विभुर्व्याचचक्षे पदानाम् // 127 // तदानीं चक्रायुधदीक्षाकाले, विभोः शान्तिजिनस्य वचनमिव सद्गुणाः गुणवन्तः पञ्चत्रिंशत् तत्सङ्ख्यका धन्याः स्तुत्याः शिवपदसुहृदः मोक्षप्रदप्रिया भूमिपालाः तं राजर्षिम् चक्रायुधमनु दीक्षया दीक्षाग्रहणेन कृत्वा ब्रजन्ति गच्छन्ति स्म, दीक्षां गृहीतवन्त इत्यर्थः, अथान्तरम् , शान्तिः तदाख्यो जिनः विभुः तेषां चक्रायुधादीनां प्रवराणां गणभृतां गणधराणां उत्पादो नाशो ध्रौव्यञ्चेत्येवं प्रख्यातं रूपं यस्य तत् , तादृशं पदानां त्रितयं त्रिपदी व्याचचक्षे व्याख्यातवान् // 127 // षडिति षट्त्रिंशद्गुणधारिभिर्गणधरैस्तस्यानुसारेण च, पोद्दामप्रतिपत्तिशालिहृदयस्तैदशाङ्गी कृता / शान्तिस्वाम्यनुयोगमेव सगणं तेषामनुज्ञातवान्, योग्यानामुचितोपचारविधये यद्वा स्थितिस्तादृशाम् // 128 // ट्त्रिंशद्गुणधारिभिः प्रोदामप्रतिपत्तिशालिहृदयैः बीजबुद्धिमद्भिः तैः गणधरैः चक्रायुधादिभिः तस्यानुसारेण त्रिपद्यनुसारेण च द्वादशाङ्गी कृता निर्मिता, शान्तिस्वामी तेषां गणधराणां कृते स्वगणमनुयोगमेवाऽनुज्ञातवान् अनुयोगानुज्ञां गणानुज्ञां च विहितवान् यद्वा यतः तादृशाम् गणधराणां तुल्यानां योग्यानां पात्राणाम् उचितस्योपचारस्य विधये विधानाय स्थितिः मर्यादा एवेवमिति शेषः // 128 // अन्येषामपि दीक्षाग्रहणाद्याह वैराग्येति वैराग्याऽऽपूर्णचित्ता व्रतमथ जगृहुर्मानवास्तीर्थनाथाद, मानव्यश्च प्रभूताः कतिचन विधिवद् श्राद्धधर्म सधर्माः