________________ शा 134 श्रीशान्तिनाथमहाकाव्यम् पञ्चदशः सर्गः / सम्यग् निर्मलम्, संवेदनं ज्ञानम् अथापि किञ्च दर्शनं चारित्रं सम्यक् इत्यस्योभयत्रान्वयःएतानि त्रीणि शिवस्य मोक्षस्य पद्धतिः मार्गः -अत एवोक्तं “सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" इति तत्त्वार्थसूत्रमिति भावः / जिनैः उद्भूतानां जातानां पापानां क्षये संनिबन्धनं हेतूभूतं यथास्यात्तथा रत्नत्रयत्वेनोदाहृतानि कथितानि // 123 / / रत्नत्रयाराधनफलमाह निर्वान्तीति - निर्वान्ति स्म विमुक्तरागविषया निर्वान्ति चान्ये तथा, निर्वास्यन्ति जना जिनोदितमहारत्नत्रयाराधनात् / / तस्मात् सम्यगिदं विबुध्य भविकाः ! ध्यानैकतानं मनः, कृत्वैवाचरतोग्रकर्मनिहतौ ब्रह्मास्त्रकल्पं बुधाः // 124 // विमुक्तरागविषयाः विरक्ता जनाः जिनोदितस्य महतो रत्नत्रयस्याराधनात् सेवनां कृत्वा निर्वान्ति स्म मुक्ता अभवन् , तथा अन्ये वर्तमानाः कतिपये निर्वान्ति मुक्तिमाप्नुवन्ति, निर्वास्यन्ति मुक्तिं प्राप्स्यन्ति च / तस्माद्रेतोः भविकाः भव्याः ! बुधाः ! हितज्ञाः, इदं विबुध्योक्तप्रकारं ज्ञात्वा ध्यानैकतानं ध्यानस्थं मनः कृत्वा उग्राणां संसारानन्तदुःखप्रदत्वादुत्कटानां कर्मणां निहतौ नाशे ब्रह्मास्त्रकल्पम् अप्रतिहतशक्ति ब्रह्मास्त्रतुल्यमिदं रत्नत्रयं सम्यक् आचरत सेवध्वमेव, नान्यथा गतिरिति भावः // 124 // अथ प्रतिबोधितस्य चक्रायुधस्य दीक्षाप्रार्थनामाह इतीति इत्याकर्ण्य सकर्णमौलिमुकुटालङ्कारहीरप्रभः, श्रीचक्रायुधभूपतिर्जिनपतेर्वाचं सुधासोदराम् / विज्ञो विज्ञपयाम्बभूव भगवन् ! मोहान्धकारच्छिदा- . धाने शारदसूरधामरुचिभं देहि व्रतं मे प्रभो ! // 125 // सकर्णानाम् धीमताम् मौलिमुकुटानामलङ्कारेषु हीरप्रभः हीरकमणितुल्यः विज्ञः श्रीचक्रायुधभूपतिः सुधासोदराममृततुल्यां जिनपतेरित्युक्तप्रकारां वाचमाकर्ण्य विज्ञपयाम्बभूव निवेदितवान् , किमित्याह- प्रभो ! भगवन् ! मोहरूपस्य अन्धकारस्य छिदाधाने छेदने शारदस्य शरदृतोः सूरधाम्नः सूर्यकिरणस्य रुचिः कान्तिरिव भातीति तत् -तादृशं व्रतम् दीक्षां मे मह्यं देहि // 125 // अथ चक्रायुधकृत्यमाह राजनिति राजंस्त्वं मा प्रमादीरिति स भगवतोदीरितः सम गत्वा, पुत्रं राज्ये निधाय प्रकटितविनयं भूरि भूरि प्रदाय / हस्त्यारूढः समेत्य प्रणतगुरुपदस्तात ! निस्तारयेति, पोच्चैः प्रोच्चार्य वाचं सुकृतकृतमना राडुपादत्तदीक्षाम् // 126 // .