________________ 133 आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् तस्मात् संयमरत्नतस्करनिभानेतान् विजेतुं जनाः, संस्थाप्यैव विवेकयामिकमहो ? कैवल्यमालम्ब्यताम् // 120 // ततस्तस्माद्धेतोः एवमुक्तप्रकारेण एकैकः प्रत्येकम् विषयः शब्दादिः समालिङ्गितः सेवितः सन् अतिनिधनम् अत्यन्तविनाशो यथास्यात्तथा भवति, ते च पञ्च विषयाः शब्दादयः समं युगपत्संसेविताः सन्तः पञ्चत्वाय मरणाय नाशायेति यावत्, कथं न भवन्ति ? अपि तु भवन्त्येवेत्यर्थः जनाः अहो इति सम्बोधने, तस्मादुक्तप्रकारदोषाद्धेतोः संयमरूपाणां रत्नानां तस्करनिभान् चौररूपानेतान् प्रागुक्तकामक्रोधमानमायालोभादीन् विजेतुं वशीकर्तुम् विवेकं सम्यग्ज्ञानं तद्रूपं यामिकं प्राहरिकं संस्थाप्य नियुज्यैव कैवल्यं मोक्षमालम्ब्यताम्, प्राप्यताम् / ज्ञानेनेन्द्रियार्थवशीकारे कैवल्यं न दुर्लभमितिभावः // रूपकम् // 120 // इन्द्रियजयं विना जिनधर्मो दुर्लभ इत्याह करणेति करणनिकरस्वैरीभावप्रवर्तनसंमीलद्विषयविमुखं चेतो यावद बुधा ! न विधास्यथ / कुगतिगमनं रोद्ध शक्तं जिनेश्वरभाषितं, कथमपि सितं तावद् धर्म स्फुटं किमवैष्यथ ? // 121 // ___ बुधाः भव्याः यावद्यदवधि चेतः करणनिकराणामिन्द्रियवर्गाणाम् स्वैरीभावेन स्वतन्त्रतया प्रवर्तनेन कृत्वा संमिलद्भयः प्राप्नुवद्भयः विषयेभ्यो विमुखं विरक्तं न विधास्यथ तावत्तदवधि, कुगतिगमनं दुर्गतिप्राप्ति रोद्भुम् , निवारितु शक्तं समर्थं जिनेश्वरभाषितं स्फुटं विशदम् सितं निर्मलं धर्म कथमपि प्रयस्यापि अवैष्यथ प्राप्स्यथ किम् ? नैव प्राप्स्यथेत्यर्थः / अजितेन्द्रियस्य जिनोक्तधर्मो दुर्लभ इति भावः // 121 // शानादिरत्नत्रयं विना धर्मो न शोभते इत्याह नेत्रेति नेत्रत्रयेणेव हिमांशुमौलिः, शक्तित्रयेणेव महीमहेन्द्रः / गुप्तित्रयेणेव महाव्रतीडयो, धर्मोऽपि रत्नत्रितयेन भाति // 122 // हिमांशुमौलिः चन्द्रशेखरः महादेवः नेत्रत्रयेण इव, महीमहेन्द्रः नृपः शक्तित्रयेण मन्त्रकोषदण्डनेनेव, महाव्रती मुनिः गुप्तित्रयेण कायवाङ्मनोगुप्तित्रयेणेव ईड्यः स्तुत्य उत्तमो धर्मोऽपि रत्नत्रयेण सम्यग्दर्शनज्ञानचारित्ररूपेणैव भाति, नान्यथेति भावः / मालोपमा // 122 // साम्प्रतं रत्नत्रय स्तौति संवेदनमिति संवेदनं सम्यगथापि दर्शनं चारित्रमेतानि शिवस्य पद्धतिः / रत्नत्रयत्वेन जिनैरुदाहृता-न्युद्भूतपापक्षयसंनिबन्धनम् // 123 //