________________ 132 श्रीशान्तिनाथमहाकाव्यम् पञ्चदशः सर्गः। लक्षेण लक्षसङ्ख्यया विहतौ विधाते सति नियतं विपत्तिमेति, साधनसम्पन्नोऽपि हा, इति खेद एकेन गन्धलोभदोषेण विपक्षेण हन्यत एव भ्रमर इति महानर्थ कारको लोभस्त्याज्य एवेति भावः / / 117 // रूपलोभोऽपि नाशहेतुरित्याह चक्षुरिति चक्षुर्दषणमेतदेव यदि नो जायेत चाऽऽजन्मनो, यत्प्रेक्षा रसिकत्वमुत्सुकतया यद् विभ्रमाऽखण्डनम् / तत् किं पक्षपरिग्रहेऽपि सबले दीपं सुवर्णात्मना, जानन्नेव निपत्य मञ्जु शलभः, पञ्चत्वमेवाप्नुयात् ? // 118 // आजन्मनः जन्मतः एवाऽऽरभ्य एतद्वक्ष्यमाणमेव च चक्षुषः दूषणं दोषः नो जायेत भवेद्यदि, किन्तदूषणमित्याह यदुत्सुकतया प्रेक्षायामवलोकने रसिकत्वमनुरागः, यच्च विभ्रमस्य विलासस्य अखण्डनम् समग्रतारूपम् , तत्तहिं पक्षस्य सहायस्य, अथ च गरुतः परिग्रहे ग्रहणे सबले बलवत्यपि सति दीप, सुवर्णात्मना सुरूपत्वेन सुवर्णत्वेन जानन्नेव जानन्नपिशलभः पतङ्गः कीटविशेषः निपत्य दीपे पातं कृत्वा मक्षु शीघ्रमेव पञ्चत्वं मृत्युमाप्नुयात्किम् ? नैव आप्नुयादित्यर्थः, रूपग्रहणेऽतिरसिकतारूपचक्षुर्दूषणेनैव बलवत्पक्षोऽपि शलभो म्रियते इति लोभस्त्याज्यः / श्रवणलोभदोषमाह विद्वांस इति-- विद्वांसः प्रवदन्ति यं किल जगत्माणस्य यानं परं, स्वप्राणानवितुं सुधांशुमभजत् पीयूषलिप्सुश्च यः। नेत्राणामवलाजनस्य समता यल्लोचनैवर्ण्यते गीताकर्णनलोलकर्ण इह स व्याधैश्शरैर्हन्यते // 119 // . विद्वांसः विज्ञाः यं मृगं जगत्प्राणस्य वायो:-"जगत्प्राणसमीरणा' इत्यमरः / परं श्रेष्ठ यानं वाहनं प्रवदन्ति किलेत्यलिके / यो मृगश्च स्वप्राणानवितुं रक्षितुं पीयूषलिप्सुः अमृतं प्राप्तुमिच्छुः सन् सुधांशु चन्द्रमभजत् / लाञ्छनरूपेणासेवत, चन्द्रस्य अमृतमयत्वादिति भावः, पीतामृतो ह्यमरो भवतीत्यर्थः / यस्य मृगस्य लोचनैः कृत्वा अबलाजनस्य स्त्रीवर्गस्य नेत्राणां समता तुल्यता वर्ण्यते, स्त्रीनेत्रं मृगनेत्रेणोपमीयते इति यावत् , स तादृशः विशिष्टोऽपि इह लोके गीतस्य आकर्णने श्रवणे लोलकर्णः सतृष्णकर्णः सन् व्याधैः कर्तुभिः शरैः कृत्वा हन्यते वध्यते, लोभाद्धि सकलमपि वैशिष्टयमकिञ्चित्करं जायते इति भावः // 119 // अतो विषयात्स्यक्तव्या एवेत्याह एकैक इति-- एकैको विषयस्ततोऽतिनिधनं चैवं समालिङ्गितः, पञ्चत्वाय भवन्ति पञ्च न कथं संसेवितास्ते समम् ?