________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् योऽस्ताघे सलिलाशये विचरति स्वच्छे सतां चित्तव जलान्तर्विनिपत्य मृत्युमयते मत्स्यः स लोलोत्कटः // 115 // यो मत्स्यः शृङ्गारात्प्रभवो यस्य तस्य कामदेवस्य केतनतया ध्वजचिह्नतया ख्याति प्रसिद्धिमालम्बते गच्छति, कामस्य मीनकेतनत्वादिति भावः / तथा, यस्य मत्स्यस्य हंसवत् सा प्रसिद्धा नीरक्षीरयोविवेकैर्भेदेन ग्रहणे कौशलस्य शिल्पस्य कला विद्या अस्ति, तथा यो मत्स्यः सतां सज्जनानां चित्तवत् अस्ताघे गम्भीरे अतलस्पर्श स्वच्छे निर्मले सलिलाशये जलाशये विचरति विहरति, स मत्स्यः लोलेषु लोलुभेषु उत्कटः अग्रेसरः सन् जालस्यानायस्यान्तर्विनिप्रत्य मृत्युमयते प्राप्नोति “लोलुपो लोलुभो लोल" इति आनायः पुंसि जालं स्यादि" ति चामरः // 115 // लोभे दृष्टान्तान्तरमाह मालत्या इति मालत्याः कुसुमं विकाशिसरसं संत्यज्य गन्धोधुरं, तत् तादृक् सहकारकोरकरसपाग्भारमुत्सृज्य च / मातङ्गस्य कपोलके विनिपतन् गन्धातिलोभादलि. नित्यं चञ्चलकर्णतालनिहतः प्राप्नोति मृत्यु जवात् // 116 // अलिर्भमरः गंधेन परिमलेनोधुरमुदग्रं सरसं समकरन्दविकाशि फुल्लं च मालत्याः कुसुमं संत्यज्य, तथा, तत्प्रसिद्धम् तादृशस्य सहकारकोरकस्याम्रमञ्जर्याः रसस्य प्राग्भारमतिशयमुत्सृज्य त्यक्त्वा च गन्धस्यातिलोभात् मातङ्गस्य गजस्य कपोलके कपोले गण्डस्थले विनिपतन् चञ्चलेन कर्णतालेन निहतः सन् जवादेव मृत्युं प्राप्नोति लोभो हि मृत्युमपि ददातीति सत्याज्य एवेति भावः // 116 // साधने सत्यपि लोभोऽनर्थकारणमित्याह पादा इति-- पादा यस्य विरिञ्चिना विरचिताः, षट् पक्षिमल्नडुज्जातिभ्योऽभ्यधिकाश्चिरं विचरणव्यापारसंपत्तये / पक्षा यस्य विपक्षलक्षविहतौ चत्वार एवावनौ, रोलम्बः स विपत्तिमेति नियतं, हा ? गन्धलोभादयम् // 117 // विरञ्चिना ब्रह्मणा चिरं विचरणव्यापारस्य विहारस्य सम्पत्तये सिद्धये यस्य भ्रमरस्य पक्षिणां मर्त्यानां नृणां अनुडुहां बलिवर्दानां च जातिभ्यः जातिरपेक्ष्याभ्यधिकाः षट् पादाः चरणाः विरचिताः, भ्रमरस्य षट्पदत्वादिति भावः / तथा यस्य भ्रमरस्य पक्षाः गरुतः - 'गरुत्पक्षच्छदाः' * इत्यमरः / चत्वारः, सोऽयं रोलम्बो भ्रमरः गन्धलोभात् अवनौ पृथ्विव्याम् विपक्षाणां शत्रणां