________________ 130 श्रीशान्तिनाथमहाकाव्यम् पञ्चदशः सर्गः। अथ लोभं दूषयति हिंसामिति हिंसामातनुतेऽनृतं वदत्यादत्ते स्वमदत्तमेव ना / अन्यस्त्रीमयते परिग्रहं, पापं किं न करोति लोभतः ? // 112 // ना पुरुषः लोभतः लोभमाश्रित्य हिंसामातनुते करोति, अनृतं मिथ्या वदति, अदत्तमेव स्वं धनमादत्ते गृह्णाति बलाचौर्याद्वेति भावः / तथा अन्यस्य स्त्रियमेवेति गच्छति, पारदार्य करोतीत्यर्थः / परिग्रहं चायते एवम् किं पापं न करोति ? अपि तु लोभाभिभूतः सर्वप्रकारमेव पापं करोतीति भावः // 112 // लोभस्त्याज्य पवेत्याह लोभमिति लोभं दुःखनिदानमेककं, मत्वा प्रोज्झत सिद्धिसिद्धये संतोषं सुखकारणं बुधाः ! सत्यं स्वीकुरुतात्र तद्भिदे // 113 // लोभमेकैकं प्रधानं दुःखानां निदानं मूलकारणं मत्वा बुधाः ! सिद्धेः मुक्तेः सिद्धये प्रोज्झत त्यजत, तथा अत्रेहलोके तस्य लोभस्य भिदे नाशाय सुखकारणं सत्यं सन्तोषं च स्वीकुरुत, सत्यसन्तोषयोराश्रितयोः सतोर्लोभः स्वयमेव नश्यतीत्यर्थः // 113 // अथ विषयाऽऽकाङ्क्षदुष्परिणाममाह जन्मेति जन्मस्थानमहीध्रविन्ध्यविरहो रेवाजलक्रीडनाऽभावः प्रेमवशंवदाशयवशासंयोगभोगक्षयः / यत्तीक्ष्णाङ्कुशताडनं दृढतरायःशृङ्खलाबन्धनं तत्सर्वं करिणां दुरन्तविषयाऽऽकाङ्क्षासमुत्थं फलम् // 114 // करिणां हस्तिनाम् , यत् जन्मस्थानरूपस्य महीध्रस्य पर्वतस्य विन्ध्यस्य तदाख्यस्य विरहः अभावः, तथा यत् रेवायाः नर्मदायाः जले क्रीडनस्याभावः, "रेवा तु नर्मदे" त्यमरः / तथा यत् प्रेम्णः वशंवदोऽधीन आशयो मनो यस्यास्तस्याः वशायाः करिण्यः संयोगः सम्भोगः तद्रूपो यो भोगः सुखं तस्य क्षयः, तथा, यत् तीक्ष्णेनाङ्कुशेन ताडनम् , किश्च दृढतरया अयःशृङ्खलया बन्धनम् , तत्सर्वमुक्तं फलम् , दुरन्तायाः दुष्परिणामायाः विषयेष्वाकाङ्क्षायाः समुत्थं जातम् विषयवासना करिणामिव सर्वेषामेवानर्थपरम्पराणां कारणमिति भावः // हास्तिपाशकैर्हि विन्ध्यादिषु कृत्रिमहस्तिना कल्पयित्वा भक्ष्यादिलोभं दत्त्वा हस्तिनं वञ्चयन्ति गृह्णन्ति च तदु. तरमुक्तं फलं तस्य // 114 // लोभस्य दृषणान्तरमप्याह शृङ्गारेति शृङ्गारप्रभवस्य केतनतया यः ख्यातिमालम्बते, नीरक्षीरविवेककौशलकला यस्यास्ति सा हंसवत् /