________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / 129 यावत् / हि किञ्च संविनयं-हि यतः संविनयं सम्यग्विनयं विना मृतः दुर्गायां दुर्ग:-दुर्गमस्थानं तद्रूपायां दुर्गतौ शोचन् दुर्गतौ तिर्यञ्चादौ दुःखान्येव शोचन् आर्तध्यानादितत्परः उत्पद्यते इतिशेषः- मानी दुर्गतिमाप्नोति, दुःखविकल्प एव च म्रियते इत्यर्थः // 107 // अथ मायां दृषयति मायामिति मायां मुग्धजनानुरञ्जिकां, पण्यस्त्रीमिव दृरतोऽपि ये। ___ नोज्झन्त्यैहिकपारलौकिक-स्वाथै ते गमयन्ति निश्चितम् // 108 // ये जनाः मुग्धजनानामज्ञानामनुरञ्जिकां प्रतारिणीम् मायां कपटं पण्यस्त्रीम् वेश्यामिव दूरतोऽपि दूरादेव न उज्झन्ति त्यजन्ति ते जनाः ऐहिकं पारलौकिकं च स्वार्थं स्वहितं निश्चित गमयन्ति नाशयन्ति, मायायाः वेश्यायाश्च पापास्पदत्वादिति भावः // 108 // मायाया पर्व दोषान्तरमप्याह मायेति माया कुण्डलिनीव यैः परिस्पृष्टा दौष्टयविषा दुराग्रहा / दष्टास्ते ननु पुण्यजीवितं, निमूलं पुनराप्नुवन्ति न // 109 // यैः जनैः दौष्ट्यं विषमिव यस्यां सा तादृशी दुराग्रहा दुर्ग्रहवती च माया कुण्डलिनी सर्पिणीव, परिस्पृष्टा कृतसङ्गा सम्पादिता आश्रिता स्पृष्टा च, दष्टा निर्मूलं यथा स्यात्तथा तयेति शेषः कृताघातास्ते जनाः पुण्यं जीवितमिव पुनः भूयः तन्नाप्नुवन्ति सर्पिणी दष्टा जीवितमिव मायादष्टाः पुण्यं नाप्नुवन्तीत्यर्थः ॥उपमा॥१०९॥ माया बुधैस्त्यज्यते इत्याह ये इति__ये पुण्यं परलोकसाधनं, मन्यन्ते मनुजा विवेकिनः / ते मायां क इव प्रकुर्वतां, पापं यत्परविप्रतारणे ? // 110 // . ये विवेकिनः इष्टानिष्टविचारवन्तः मनुजाः पुण्यं परलोकसाधनं मन्यन्ते ते मायाम् क इव कथमिव प्रकुर्वताम् कुर्वन्तु ? न कथमपि कुर्वन्त्वित्यर्थः यद्यतः परस्यान्यस्य विप्रतारणे वञ्चने, मायाकरणे इति यावत् , पापम् जायते इति शेषः // 110 // माया आर्जवेनैव जेतव्येत्याह मायामिति मायामार्जवमन्तरेण यो, निर्जेतुं क्षमते महामतिः। आदत्ते खलु पद्मनागिनी, विद्यां जाङ्गुलिकी विनैव सः // 111 // यः महामतिः धीमान् , आर्जवं निश्च्छलतामन्तरेण विना मायां निर्जेतुं तिरस्कर्तुं क्षमते शक्नोति, स, खल्विति अलीके, आर्जवं विना मायाजयोऽलीक इति भावः / जाङ्गुलिकी विद्यां विनैव पद्मनागिनी पद्मनागसम्बन्धिनों विद्याम् आदत्ते गृह्णातीत्यर्थः / जाङ्गुलिकी विद्यां विना पद्मनागविथेवार्जवं-विना मायाजयोऽशक्य इति भावः // 111 // शा. 17