________________ 128 श्रीशान्तिनाथमहाकाव्यम्-पञ्चदशः सर्गः / सम्पतिमानत्यागमुपदिशति ज्ञानमिति ज्ञानं यत्र न चावभासते, निःशेषार्थविबोधनक्षमम् / . भास्वद्विम्बमिवाम्बुदोदये, मानं कः सुकुती तमाश्रयेत् ? // 104 // यत्र यस्मिन् माने सति निःशेषाणां सकलानामर्थानां पदार्थानां विबोधने प्रकाशने क्षम समर्थ ज्ञानम्, अम्बुदस्य मेघस्योदये उद्गतौ भास्वतः सूर्यस्य बिम्बं मण्डलमिव न च नैव अवभासते प्रकाशते, तं तादृशं सर्वज्ञानविलोपिनं मानमभिमानं कः सुकती धीमान् पुण्यवान् वा समाश्रयेत् कुर्यात् ? न कोऽपीत्यर्थः / धोमता मानत्याज्य इति भावः // 104 // मानस्य प्रकारान्तरेणापि त्याज्यत्वमाह राज्य इति राज्ये स्थापितमुत्तमैर्गुणैरागत्य स्वत एव रञ्जितैः / निःशङ्को विनयं निहन्ति यस्तं मानं वितनोतु को बुधः // 105 // . यः मानः निःशङ्कः निरातङ्कः सन् निरङ्कुश इति यावत् , रञ्जितैः अनुरक्तैः आकृष्टैरित्यर्थः, उत्तमैः गुणैः स्वत एव, न तु प्रयासादिना आगत्य प्रकटीभूय राज्ये प्रधानपदे स्थापितं निवेशितं विनयं गुरुषु नत्रत्वं निहन्ति नाशयति मानी ह्यविनयी भवतीति भावः / तं तादृशं विनयघातकं मानं को बुधः वितनोतु करोतु ? न कोऽपि करोत्वित्यर्थः / मानकरणं मूर्खजनोचितमिति भाव : // 105 // विनयनाशनमेव विवृणोति आरुढ इति आरूढः किल गर्वपर्वतं, सर्व खर्वमवेक्षते परम् / नाभ्युत्थानकथां करोति नाऽभ्यायाते गुरुवान्धवेऽपि यः // 106 // गर्व एव अत्युच्चत्वात् दुष्प्राप्यत्वात्पर्वतः तमारूढ आश्रितः. मानी जनः किलेत्यप्रिये सर्व खवं परमन्यं जनं वामनम्, स्वस्मात् न्यूनमित्यर्थः / 'खों ह्रस्वश्च वामन' इत्यमरः / अवेक्षते मन्यते तत्र युक्तिमाह-यः मानी ना गुरौ बान्धवे च श्रेष्ठे बान्धवे वा अभ्यायाते स्वसम्मुखमागतेऽपि सति अभ्युत्थानकथामभ्युत्थानं वार्ता च न करोति, स्वं महान्तमभिमन्यमानः गुरूनप्यवजानाति, गुरोरभ्युत्थानादि हि विनयप्रयोज्यमिति भाव : // 106 // मानेऽऽपत्यन्तरमाह मानमिति मानं यस्तनुते स माननां, राजादेर्न कदापि विन्दति / दुःखान्येव हि दुर्गदुर्गती, शोचन् संविनयं विना मृतः // 107 // यो जनो मानं तनुते करोति स राजादेः नृपादेः सकाशात् माननां सत्कारं कदापि न विन्दति प्राप्नोति, मानिनं प्रति सर्वेषामेव तिरस्कारबुद्धेरिति भावः / अविनयस्तिरस्कारमूलमिति