________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 127 - कस्याङ्गिनः प्राणिनः कैवल्यस्य मोक्षस्य सुखानि स्वायत्तानि स्वाधीनानि न भवेयुः अपि तु सर्वस्यैव भवेयुरेव यदि अत्र कैवल्यप्रापके वर्त्मनि मार्गे धर्माचरणादौ चतुर्गतिप्रियाः नारकादिगतिकारकाः एते प्रसिद्धाः कषायकाः कषायाः क्रोधमानादयः नो नैव रुन्ध्युः विघ्नीभवेयुः कषायत्यागे मुक्तिः सुलभेति भावः // 88 // तत्कषायजयोपायमाह संसारस्येति-- संसारस्य महानियोगिनश्चत्वारः प्रवला कपायकाः / क्षान्त्यादिप्रमुखैर्महाभटैजित्वैतान् जन एति निर्दृतिम् // 100 // चत्वारः क्रोधादयः प्रबलाः बलवन्तः कषायाः संसारस्य महानियोगिनः अतिनियोजका वृद्धिकारका इति यावत् महानियोगिनः परमाज्ञाकारिणः भृत्याः , जनः क्षान्त्यादिप्रमुखैः क्षमादिभिः महाभः कृत्वा एतान् क्रोधादीन् जित्वाऽभिभूय निवृतिं मोक्षं सुखं वा एति प्रामोति // 100 // अथ क्रोधस्य दोषानाह पूज्यमिति पूज्यं नो पितरं न मातरं, ज्येष्ठं भ्रातरमेव नाङ्गजम् / नैर स्वामिनमेव मन्यते, क्रोधावेशवशंवदः पुमान् // 101 // क्रोधावेशस्य वशंवदोऽधीनः क्रोधीत्यर्थः, पुमान् जनः, पितरं जनकं पूज्यं सेव्यमादरणीय वा नो मन्यते, पूज्यं नो मन्यते इत्यस्य सर्वत्रैवान्वयः, तथा, मातरं न, पूज्यां मन्यते इति लिङ्गव्यत्ययेनान्वयः, ज्येष्ठं भ्रातरमङ्गजं पुत्रं ज्येष्ठमेव च न पूज्यं मन्यते, तथा स्वामिनमेव, पूज्यं नैव मन्यते, विवेकविनाशकः क्रोध इति भावः // 101 // कोत्यागमुपदिशति प्रीतिमिति. प्रीति यश्चिरकालपालितां प्रध्वंसं नयति क्षणादपि / स्वर्भानुः शशभृत्कलामिव, क्रोधं तं विदधीत कः सुधीः ? // 102 // यः क्रोधः क्षणादपि क्षत्रमात्रेणैव प्रीति स्नेहं प्रध्वंसं नयति भनक्ति, स्वर्भानुः राहुः 'तमस्तु राहुः स्वर्भानुरि " त्यमरः / शशभृतः चन्द्रस्य कलामिव, तं तादृशमनिष्टकरं क्रोधं कः सुधीः विदधीत कुर्यात् ? न कोऽपि कुर्यादित्यर्थः क्रोधोऽगुणोऽतस्त्याज्य इति भावः // 102 // क्रोधत्यागे हेत्वन्तरमप्याह सर्वाणोति-- सर्वाण्येव तपांसि भस्मसात्, कर्तुं यस्य पुनः प्रगल्भता / दारुणीव कृपीटजन्मनः, कस्तं क्रोधमपाकरोतु न ? // 103 // पुनः यस्य क्रोधस्य सर्वाण्येव तपांसि कृपीटजन्मनोऽग्नेः दारुणि काष्ठानिव भस्मसात्कर्तुं ध्वंसितुं प्रगल्भता सामर्थ्यम् तं महानर्थकारकं क्रोधं कः न अपाकरोतु त्यजतु अपि सधैं रेव स क्रोधस्त्याज्य एवेति भावः // 103 //