________________ 126 श्रीशान्तिनाथमहाकाव्यम्-पञ्चदशः सर्गः / दक्षिणावर्त्तम् दक्षिणेन सव्येन आवर्तो भ्रमियस्य तादृशं प्रसिद्धं शङ्खमिव सम्पद्र्धनस्य हेतुः कारणम् दक्षिणावर्तः धनं वर्धयवतीति तद्विदः / तथा अतिनिर्मलम् अतिधवलम् गुणोज्ज्वलञ्च, तथा चिन्तारत्नमिव ईप्सितप्रदम् मानुष्यम्, मुक्त्यादिसर्वेष्टस्य मनुष्यभव एव मनुष्यैकसाध्यत्वादिति भावः परमत्यन्तं जन्मशतसहस्रेणापि दुर्लभमस्ति // 95 // ननु ततः किमित्याह लब्ध्वेति-- लब्ध्वा तत् सुकृतेन भूयसा, सर्वार्थप्रतिपत्तिसाधनम् / संसारभ्रमसंनिबन्धनं, भव्या ! संत्यजत प्रमादकम् // 96 // भव्याः ! सर्वेषामर्थानां प्रयोजनानां प्रतिपत्तेः प्राप्तेः साधनं तन्मानुष्यकं भूयसा प्रचुरेण सुकृतेन पुण्येन हेतुना लब्ध्वा संसारे भ्रमस्य भ्रमणस्य भवपरम्पराया निबन्धनं कारणं प्रमादकं प्रमादम् धर्मादिविषयालस्यं संत्यजत अन्यथा तल्लब्धमपि न सूपयुक्तमिति भावः // 96 // . . प्रमादादनिष्टमाह रे त्वमिति रे ! त्वं याहि कुरु प्रयोजनं, निर्दिष्टं मयका यदस्ति ते / ईदृग्वाश्रवणं प्रमादतः, केषाञ्चित् सदृशेऽप्यहो ! भवे // 9 // अहो ! इति खेदे, खेदो यत् भवे जन्मनि सदृशे समानेऽपि सति मनुष्यमात्रे मानुष्यके मनुष्यस्योभयत्र त्वस्य तुल्यत्वेऽपि सति, प्रमादतः प्रमादाश्रयणात् कृत्वा केषाञ्चिन्मनुष्याणाम् रे इति निकृष्टसम्बोधनम् , त्वं याहि ते तुभ्यं मयका मया यन्निर्दिष्टमादिष्टं प्रयोजनं कार्यमस्ति तत्कुरु, इतीदृशः वाचः आज्ञावाचः श्रवणम् अस्तीति शेषः प्रमादादेव जन्तुः दास्यमनुभवतीति भावः // 97 // प्रमादस्यानिष्टान्तरमाह प्रेष्यत्वमिति-- प्रेष्यत्वं परकर्मवृत्तिता, दौविध्यं परितोऽपमानता / . दौर्भाग्यं प्रियविप्रयोगताऽनिष्टं किं न भवेत् प्रमादतः ? // 98 // प्रमादतः प्रमादाश्रयणतः परस्यान्यस्य कर्मणि कार्ये वृत्तिता स्थायितारूपं प्रेष्यत्वं दासता परितः सर्वथा अपमानता तिरस्काररूपम् दौविध्यम् दुस्थितता, प्रियेण विप्रयोगता वियोगरूपं दौर्भाग्यमित्येतद्भवति, किमनिष्टं न भवेत् ? अपि तु सर्वमेवानिष्टं भवत्येवेत्यर्थः // 98 // कैवल्यस्येति - कैवलस्य सुखानि कस्य न, स्वायत्तानि भवेयुरङ्गिनः ? / यद्यतेऽत्र चतुर्गतिप्रिया, रुन्थ्युवम॑नि नो कषायकाः // 19 //