________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / 125 - इति ये भव्याः तव अङ्ग्रिपङ्कजं पादप- सेवन्ते ते भव्याः श्रीः लक्ष्मीः गुणाः भद्राणि च तेषां तादृशाश्च श्रीमन्तः गुणवन्तः कल्याणवन्तश्च, ते च ते सूरयो विद्वांसश्च स्युः अनेन स्वगुरुनामसूचितम् ग्रन्थका / तथा ये भवन्तमादरात् श्रद्धापूर्वकं ध्यायन्ति तेषां किञ्चन मुक्त्यादि दुर्लभं नास्ति, सर्वमपि प्राप्नुवन्ति ते भवत्प्रभावादिति सर्वकामदो भवानिति सर्वथा सर्वैयेय एवेति भावः // 91 // संप्रति स्वस्य भक्तिमात्रेण प्रयोजनमित्याह राज्यमिति राज्यं शान्तिजिन ! त्वदर्थये, नाहं चक्रिपदं च तादृशम् / स्वाराज्यं विबुधस्तुतं च नो, त्वत्सेवामनिशं भवे भवे // 92 // शान्तिजिन ! अहम् त्वद्भवत्सकाशात् तादृशमतिविशालं राज्यं चक्रिपदं च नार्थये इच्छामि, तथा विबुधैः देवैः स्तुतं प्रशस्त स्वाराज्यं स्वर्गाधिपत्यं च नो नैव अर्थये तर्हि किमर्थयसे इति चेत्तत्राह-भवे भवे नत्वैकत्रैव, अनिशं सततं त्वत्सेवाम् , अर्थये, राज्यादीनां कर्मबन्धवर्धकत्वात्त्वत्सेवायाश्च कर्मबन्धच्छेदकत्वात्वत्सेवायामेव मे प्रीतिरिति भावः // 92 // अथ प्रणामर्वणनेन स्तुतिमुपसंहरति इतीति इत्याध्याय सुरेन्द्रपार्थिवौ, भर्तः संस्तवनं गुणोज्ज्वलम् / __ मूनः स्वस्य तदोत्तमाङ्गतां, भूयः कतुमिव प्रणेमतुः // 93 // सुरेन्द्रः शक्रः पार्थिवः चक्रायुधश्च तो गुणौज्ज्वलम् प्रकृष्टगुणं संस्तवनं गुणकीर्तनमित्युक्तप्रकारेणाध्याय विधाय तदा स्तुत्यन्ते स्वस्य मूळः शिरसः उत्तमाङ्गताम् प्रशस्तावयवत्वम् , भूयः नाम्नोत्तमाङ्गतायाः सत्त्वेऽपि नमस्कारक्रिययाऽपि कर्तुमिव प्रणेमतुः, तदेव शिर उत्तमाङ्गं यज्जिनं प्रणमतीति भावः ॥उत्पेक्षा // 13 // अथ जिनस्य धर्मदेशनाविधाने कारणमाह उद्धर्तुमिति-- उद्धर्तु भविकान् भवाम्बुधेः, पोते सत्यपि मज्जतो भृशम् / पञ्चत्रिंशदहार्यगीर्गुणां, पारेभेऽथ स धर्मदेशनाम् // 14 // अथ स्तुत्यनन्तरम् स शान्तिजिनः पोते तरणसाधने नावादिरूपे धर्मे सत्यपि भृशमत्यर्थ मज्जतः ब्रुडतः भविकान् भव्यान् भवाम्बुधेः सकाशादुद्धर्तुम् भवपरम्परां त्याजयितुम् पञ्चत्रिंशत् तत्सङ्खयका, अहाउः अप्रतिमोचनीया गीर्गुणाः वागतिशया यस्यां तां तादृशीम् धर्मदेशनां प्रारेमे // 9 // सम्प्रतिमानुष्यकं स्तौति संपदिति संपर्धनहेतुदक्षिणावर्त शङ्खमिवातिनिर्मलम् / चिन्तारत्नमिवेप्सितप्रदं मानुष्यं परमस्ति दुर्लभम् // 15 //