________________ 124 श्रीशान्तिनाथमहाकाव्यम् पञ्चदशः सर्गः / भवतः स्वाभाविकमेवैतत्तत्र दृष्टान्तमाह-वैध\ण-यदि वा शार्दूल: व्याघ्रः सिंहनिर्जये सिंहाभिभवे प्राकाम्यं प्रगुणत्वं किमु नो बिभर्ति ? अपि तु बिभत्र्येवेत्यर्थः शार्दूलसदृशस्य भवतः सिंहसदृशमोहजय उचित एवेति भावः // 87 // सम्प्रति वागतिशयं वर्णयति वाणीति वाणी ते भुवनोपकारिणी, गङ्गेवाऽधिरजोऽपहारिणी / आसाद्याऽचलमुत्तमं पदं, भव्यान् श्रौतपथाद् निवर्तते // 88 // ते तव, वाणी गङ्गा इव, अधिकानां रजसां धूलीनां शरीरमलानां वा, आत्मदोषाणाञ्च अपहारिणी सती, अत एक भुवनानां लोकानामुपकारिणी भव्यान् प्राणिनः श्रौतपथात् श्रुतमार्गमाश्रित्य उत्तम सर्वोत्कृष्टम् , अचलमविनाशि, पदं स्थानम् , मुक्तिपदमित्यर्थः आसाद्य प्रापयित्वा , निवर्तते विरमति, नत्वन्तरा, तव वाणी मुक्तिदायिनीति तव महान् वागतिशयोऽसाधारण इति भावः // 88 // सम्प्रति नाम स्तौति श्रीति-- श्रीशान्ते ! तव नाम कामितं, भव्यैः संस्मृतमातनोति यत् / चित्रं तत्र न यत् सुरद्रुमो, देवानामपि तद् विचेतनः // 89 // श्रीशान्ते ! यद्यतः भव्यैः संस्मृतम् कीर्तितं ध्यातं वा तव नामाभिधानम् कामितमभिलषितमातनोति करोति, तत्र कामितकरणविषये न चित्रं किमपि यद्यतः विचेतनः जडोऽपि सुरद्रुमः कल्पवृक्षः देवानाम् तत्कामितमातनोति, यदि विचेतनः तादृशः तर्हि केवलिनः तव नाम्नः तत्कुतश्चित्रां जायते ! इति भावः कल्पद्रुमो देवोपकारक एव, तव नाम तु भव्यमात्राणामिति व्यतिरेको ध्वन्यते // 89 // मम त्वय्येव रतिरित्याह ब्रह्मेति ब्रह्मादिष्वपि दैवतेषु मे, चित्तं त्वत्पदपद्मसेवने / रोलम्बस्य यथैव मल्लिकापुष्पौघेष्वपि मालतीसुमे // 10 // मे मम चित्तं ब्रह्मादिषु दैवतेषु सत्स्वपि त्वत्पदपद्मसेवने एव, नान्यत्र, अत्र च स्वमनःप्रवृत्तिरेव हेतुः तत्र दृष्टान्तमाह-यथैव मल्लिकापुष्पाणामोघेषु राशिषु सत्स्वपि रोलम्बस्य भ्रमरस्य मालत्याः सुमे पुष्पे एव चित्तं नान्यत्र-तत्रैव विलक्षणचित्ताह्लादकत्वधर्मसत्त्वात् तथेत्यर्थः / चित्तवृत्तिर्हि विचित्रेति भावः // 10 // अथ सेवनाद्विशिष्टफलप्राप्तिमाह सेवन्त इति- . सेवन्ते तव येऽङ्ग्रिपङ्कजं, ते स्युः श्रीगुणभद्रसूरयः / ये ध्यायन्ति भवन्तमादरात् तेषां किचन नास्ति दुर्लभम् // 11 //