________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 123 "जिनेशस्य शान्तिजिनस्य दर्शनादर्शनं प्राप्य निरत्ययमविनाशि परमं सर्वोत्कृष्टमानन्दं सम्प्राप्स्यामि, अनेन अश्रृणा मे किं ? न किमपि प्रयोजनमित्यर्थः, इतीत्थम् चेतसा विचिन्त्य पार्थिवः चक्रायुधः आनन्दाश्रु हर्षजं बाष्पं लुलोप मार्जयामास // 83 // . अथ स्तुतिप्रक्रमं वर्णयति स्वरिति-- स्वर्णाथोऽवनिनाथकुब्जरोऽप्येषोऽथ प्रणिपत्य भक्तितः / निर्मायाऽजलिमात्ममूर्धनि, स्तोतुं प्राक्रमतवमीश्वरम् // 84 // __ अथान्तरम् स्वर्नाथः शक्रः एव प्रस्तुतः अवनिनाथेषु महीपेषु कुञ्जरो हस्तीव श्रेष्ठः चक्रायुधोऽपि भक्तितः प्रणिपत्य प्रणम्य आत्ममूर्धनि स्वललाटेऽञ्जलिं करसम्पुटं निर्माय बध्वा ईश्वरम् शान्तिजिनेश्वरमेवं वक्ष्यमाणप्रकारेण स्तोतु प्राक्रमत प्रारब्धवान् , न हि विज्ञोऽवसरेषु मुह्यतीति भावः // 84 // . अथ स्तुतिमेवाह-जीवस्येति-- जीवस्येव मतिर्न यद्यपि, स्वामिन् ! मे रसनासहस्रकम् / शेषस्येव मुखे तथाऽपि ते, कांश्चित् स्तौमि गुणान् त्वदाश्रितः // 85 // स्वामिन् ! यद्यपि जीवस्य देवगुरोरिव मतिर्बुद्धिर्नास्ति मे किञ्च शेषस्य शेषनागस्येव मुखे रसनानां जिह्वानां सहस्रकम् नेत्यन्वयः शेषस्य सहस्रमुखत्वात् मम चैकमुखत्वात् , तथापि त्वद्गुणबाहुल्यमपेक्ष्य तत्कीर्तनोपयुक्तमतिजिह्वाबहुत्वरूपसामग्रयभावेऽपि, त्वदाश्रितः त्वदधीन इत्यतो हेतोः ते तव कांश्चिद् गुणान् स्तौमि सामग्यभावेन सर्वेषां स्तोतुमशक्यत्वात् अनुरूपमाचरन् न दुष्यतीति भावः जीवो वा शेषो वा त्वां स्तोतुं समर्थः कथंचिन्नाऽन्य इति ध्वनिः / / 85 // कर्माणीति कर्माण्यष्ट जिनेन्द्र ! सर्वथा, नीतानि प्रशमं त्वयौजसा / तायेणेव कुलानि भोगिनां, नित्यानन्दनिवर्तकान्यलम् // 86 // जिनेन्द्र ! त्वया ओजसा स्ववीर्येण कृत्वा नित्यानन्दस्य मोक्षसुखस्य निवर्तकानि प्रतिबन्धकानि आवारकानीति यावत् अलं बलवन्ति अष्टकर्माणि ज्ञानावरणीयादीनि, ताक्ष्येण गरुडेन मोगिनां सर्मागां कुलानीव सर्वथा अत्यन्तरूपेण प्रशमं क्षयं नीतानि // 86 // मोह इति मोहोऽयं भवता विनिर्जितः, सर्वत्राऽस्खलितोरुविक्रमः। पाकाम्यं यदि वा बिभर्ति नो, शार्दूलः किमु सिंहनिर्जये // 87 // भवता सर्वत्र सर्वप्राणिषु अस्खलितोऽप्रतिहतः गुरुः महान् विक्रमः सामर्थ्य यस्य तादृशः सर्वविजयी अयं प्रसिद्धः मोहः ममत्वादिबुद्धिः विनिर्जितः तिरस्कृतः गतमोहो भवानित्यर्थः /