________________ 122 श्रीशान्तिनाथमहाकाव्यम पञ्चदशः सर्ग: / समावेशरूपः महेशितुः शान्तिजिनस्य ईड्यः स्तुत्यः महिमा महात्म्यम् तन्माहात्म्यादेव तथाऽभूदिति भावः // 78 // अथ चक्रायुधस्य तत्समाचारप्राप्तिमाह श्रीति श्रीचक्रायुधभूपुरन्दरं, वेगादेत्य वनाद् वनाऽवनाः / त्रैलोक्यप्रभुनित्यकेवलोत्पत्त्याऽथ प्रयता व्यवर्धयन् // 79 // अथ केवलज्ञानोप्तत्त्यनन्तरम्, वनावनाः उद्यानपालकाः प्रयताः स्वविधितत्पराः सन्तः वनाद् वेगादेत्य श्रीचक्रायुधं तदाख्यम् शान्तिपुत्रं भूपुरन्दरं महीपम् त्रैलोक्यप्रभोः शान्तिजिनस्य नित्यस्य उत्पत्यनन्तरं सदा स्थायिनः केवलस्य तदाख्यज्ञानस्योत्पत्त्या तत्सूचनेन कृत्वा व्यवर्धयन् वर्धापनां ददुः // 79 // अथ चक्रायुधगमनमाह सदिति - सत्कृत्याऽवनिपालपुङ्गवस्तान् सवाँश्च वनीपतीनथ / नन्तुं तीर्थपति रयादयाज्ज्ञः को वा सुकृते प्रमाद्यति // 8 // अथ अवनिपालेषु पुङ्गवः श्रेष्ठः चक्रायुधः तान् वृत्तान्तनिवेदकान् सर्वान् वनीपतीन् उद्यानपालकान् सत्कृत्य तीर्थपति शान्तिजिनं नन्तुं रयाद्वेगादयादगमत्, तदेव समर्थयति को वा पुमान् सुकृते पुण्यविधौ प्रमाद्यति अलसायते ? न कोऽपीत्यर्थः / सामान्येन विशेषसमर्थनादर्थान्तरन्यासः // 8 // अथ तस्य समवसरणप्राप्तिमाह औदीच्यमिति-- औदीच्यं सुकृतालयस्य तद्, द्वारं पाप वसुन्धरापतिः। कृत्वा वैनयिकी क्रियां स्वयं, पञ्चैवाऽभिगमांश्च सोऽविशत् // 81 // स वसुन्धरापतिश्चक्रायुधः सुकृतालयस्य पुण्यस्थानस्य तत् तस्य समवसरणस्य औदीच्यमुत्तर स्थितं द्वारं प्राप, तथा स्वयं वैनयिकी क्रियाम् पञ्चाभिगमांश्चैव कृत्वाऽविशत् // 81 // अथ तत्कृतप्रदक्षिणाद्याह सर्वक्षेति सर्वज्ञ ! त्वदुपासनां विना, भ्रान्तोऽहं कुगतित्रये पुरा / भूपालः कथयन्निति प्रभोस्तिस्त्रः स प्रददौ प्रदक्षिणाः // 82 // सर्वज्ञ ! अहं पुरा त्वदुपासनां विना कुगतित्रये नारकादौ भ्रान्तः इतीत्थम् कथयन् स भूपालश्चक्रायुधः प्रभोः शान्तिजिनस्य तिस्रः प्रदक्षिणाः प्रददौ चकार अनुशक्रं निषसाद च // 82 // अथ तस्यानन्दाश्रुमार्जनमाह आनन्दमिति आनन्दं परमं निरत्ययं, संपाप्स्यामि जिनेशदर्शनात् / किं मेऽनेन विचिन्त्य चेतसेत्यानन्दाश्रु लुलोप पार्थिवः // 83 // .