________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 121 अथ देवावस्थानमाह ज्योतिष्का इति ज्योतिष्का भवनाधिपास्तथा, सर्वे व्यन्तरनिर्जराः पुनः। प्रत्यग्द्वारकृतप्रविष्टयो, बायव्यां स्थितिवेदिनः स्थिताः // 74 // पुनः पश्चात् ज्योतिष्काः भवनाधिपाः तथा सर्वे व्यन्तरनिर्जराश्च स्थितिवेदिनः विधिज्ञाः प्रत्यग्द्वारेण पश्चिमद्वारेण कृता प्रवृष्टियः तादृशा प्रविष्टाः सन्तः वायव्यां दिशि स्थिताः // 74 // अथ कल्पनिवासिनामवस्थानमाह कौबेयेति कौबेर्या ककुभा प्रवेशनं, कृत्वा तीर्थपतिं विनम्य च / देवाः कल्पनिवासिनो नरा, नार्यश्वेशदिशि स्थिति व्यधुः // 75 // कल्पनिवासिनो देवाः वैमानिकाः नरा नार्यश्च कौबेर्या उत्तरया ककुभा दिशा प्रवेशनं कृत्वा तीर्थपति शान्तिजिनं विनम्य च ईशदिशि ऐशान्यां स्थिति व्यधुः स्थितवन्तः // 75 // अथ तत्र भयाद्यभावमाह नेति नासीदत्र भयं न दुष्कथा, मात्सर्य न च किञ्चन कचित् / आबाधाऽपि न नो नियन्त्रणा, तीर्थाधीशमहाप्रभावतः // 76 // अत्र समवसरणे तीर्थाधीशस्य शान्तिजिनस्य महतः प्रभावतो महात्म्यतः क्वचित्किञ्चन भयं नासीत् , दुष्कथा असद्वार्ता न, मात्सर्यं न, आबाधा पीडा च न, नियन्त्रणा परितापश्च न आसीत् // 6 // अथ तत्र सिंहादीनामप्यवस्थानमाह वप्रस्येति - वपस्याऽऽद्यपरस्य मध्यतः, पारीन्द्रद्विरदादयोऽखिलाः / .. तिर्यञ्चोऽपि यथासुखं मिथ-स्तस्थुः प्रेमभरोद्धराशयाः // 77 // आदेंः प्रथमादपरस्य द्वितीयस्य वप्रस्य प्रकारस्य मध्यतः मध्ये अखिलाः पारीन्द्रद्विरदादयः सिंहहस्त्यादयः तिर्यञ्चः तिर्यग्योनयोऽपि मिथः परस्परं प्रेमभरेण सहजविरोधत्यागपूर्वकप्रेमातिशयेन उद्भुराशयाः भृतमनसः सन्तः यथासुखं सुखपूर्वकं तस्थुः // 77 // अथ वाहनावस्थानमाह अन्तेति अन्तमान्तिमवप्रमासत, क्ष्मापालामरदेवविद्विषाम् / यानान्यक्षतकानि संकटेऽपीड्योऽयं महिमा महेशितुः // 78 // क्ष्मापालानां नरेन्द्राणां अमराणां देवानाम् देवविद्विषामसुराणां च अक्षतकानि देवविद्विषामसुराणाञ्च यानानि वाहनानि, सङ्कटेऽप्यक्षतकान्यभङ्गानि, अन्तप्रान्तिमवप्रं, तृतीयवप्रमध्ये, आसत अस्थुः, ननु स्थलसङ्कोचेऽप्यक्षतानि तानि कथं तस्थुरिति चेत्तत्राह-अयं सर्वेषां शा. 16